________________
आवश्यक मूलसूत्रम् - १
सामायिकमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात्, तथाहि समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः । 'उद्देसे निद्देसे य' इत्याद्युपोद्घात-निर्युक्तिप्रथमद्वारगाथावयवार्थो गतः, इदानीं द्वितीयद्वारगाथाप्रथमवयवः किमिति द्वारं व्याख्यायते - किं सामायिकं ?, किं तावज्जीवः ? उताजीवः ? अथोभयम् ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत गुण इत्याशङ्कासम्भवे सत्याह
२८८
नि. (७९०) आया खलु सामइयं पञ्चक्खायंतओ हवइ आया ।
तं खलु पञ्चक्खाणं आवाए सव्वदव्वाणं ॥
वृ- 'आत्मा' जीवः खलुशब्दोवधारणे, आत्मैव-जीव एव सामायिकमित्य जीवादि-पूर्वोक्तविकल्पव्यवच्छेदः, 'पञ्चक्खायंतओ हवइ आय' त्ति स च प्रत्याचक्षाणः प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठाकालयोरभेदाद् वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धानज्ञानसावद्यनिवृत्तिस्व-स्वभावावस्थितत्वात् शेषः संसारी पुनरात्मैव न भवति, प्रचरघातिकर्मभिस्तस्य स्वाभाविक-गुणतिरस्करणात्, अतो द्वितीयाऽऽत्मग्रहणं, तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सव्वदव्वाणं' तिसर्वद्रव्याणामापाते आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह-किं सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सति-विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वाद्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वा-दित्यसिद्धं, तथाहिसामायिकस्य विषयनिरूपेणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात्, सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः ॥ तत्र यदुक्तम् 'आत्मा खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह मूलभाष्यकारः
[ भा. १४९]
-
सावज्जजोगविरओ तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होई ॥
वृ- सावद्ययोगविरतः अवघं मिध्यात्वकषायनोकषायलक्षणं सहावद्येन सावद्यो योगस्तद्विरतःतद्विनिवृत्तः, त्रिभिः मनोवाक्कायैर्गुप्तः षट्सु जीवनिकायेषु संयतः प्रयत्नवान्, तथाऽवश्यं - कर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥ साम्प्रतं यदुक्तम् 'तं खलु पञ्चक्खाणं आवाए सव्वदव्वाणं' ति, तत्र साक्षान्यमहाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामष्योपदर्शयन्नाह
नि. (७९१) पढमंमि सव्वजीवा बिरूइ चरिमे य सव्वदव्वाइं ।
सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं ॥
वृ- 'प्रथमे' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने 'सर्वजीवाः ' त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृषावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि कथम् ?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात्, तन्निवृत्तिरूपत्वाच्च द्वितीयव्रतस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org