________________
उपोद्घातः - [नि.७८६]
२८७
वसतीना मिति, जातिग-गहणान्नारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं मूलं' कारणं, भवन्तीति योगः, मा भूत् सकृद्भाविनीनां जाति-जरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह- 'संसारस्स उ' संसरणं संसारः-तिर्यग्नरनारकामरभवानुभूतरूपः प्रदीर्घो गृह्यते, तस्यैव तुशब्दस्यावधारणार्थत्वात्, निर्ग्रन्थरूपेणेति गाथार्थः।। आह-एते निह्नवाः किं साधवः ? उत तीर्थान्तरीयाः ? उत गृहस्था इति ?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्याय कृतमशनादि शेषाणामकल्प्यं, नैवं निलवानामिति, आह चनि. (७८७) पवयणनीहूयाणं जं तेसिं कारियं जहिं जत्थ ।
भज्जं परिहरणाए मूले तह उत्तरगुणे य ॥ वृ- ‘पवयणनीहूयाणं' ति नियंति देशीवचनमकिञ्चित्करार्थे, ततश्च प्रवचन-यथोक्तं क्रियाकलापं प्रत्यकिञ्चित्कराणां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् 'भाज्यं' विकल्पनीयं परिहरणया, कदाचित् परिहियते कदाचिनेति, यदि लोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ च जानाति तदा न परिह्रियत इति, अथवा परिहरणा-परिभोगोऽभिधीयते, यत उक्तम्-"धारणा उवभोगो परिहरणा तस्स परिभोगो" तत्र भाज्यं 'मूले मुलगुणविषयमाधाकर्मादि तथा उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापि गृहस्था गृहीतलिङ्गत्वात्; नापि तीर्थान्तरीयाः, नान्यतीर्थ्याः, यतस्तदर्थाय यत् कृतं तत् कल्प्यमेव भवति, अतोऽव्यक्ता एत त गाथार्थः ॥ आह-बोटिकानां यत् कारितं तत्र का वार्ता ?, उच्यतेनि. (७८८) मिच्छादिट्ठीयाणं जं तेसिं कारियं जहि जत्थ ।
सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे य॥ वृ-'मिथ्याष्टिनां बोटिकानां यद् अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे सर्वमपि तत् शुद्धः कल्प्यमिति भावना, मूलगुण विषयं तथोत्तरगुणविषयं चेति गाथार्थः । उक्तं समवतारद्वारम्, अधुनाऽनुमतद्वारं व्याख्याते-तत्र यद्यस्य नयस्य सामायिक मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाहनि. (७८९) तवसंजमो अनुमओ निग्गंथं पवयणं च ववहारो।
सद्दुज्जुसुयाणं पुन निव्वाणं संजमो चेव ॥ कृतापयतीति तपः तपःप्रधानः संयमस्तपः संयमः असौ ‘अनुमतः' अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यम्-आर्हतमिति भावना, किं ?-प्रवचनं श्रुतमित्यर्थः, चशब्दोऽ. नुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, 'ववाहारो'त्ति एवं व्यवहारो व्यवस्थितः, व्यवहारग्रहणाच्च तदधोवर्तिनगमसंग्रहनयद्वयमपि गृहीतं वेदितवयं, ततश्चैतदुक्तं भवति- नैगमसंग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गताऽनुमन्यन्ते, तपः संयमग्रहणाचारित्र सामायिकं, प्रवचनतग्रहणाद् श्रुतसामायिकं, चशब्दात् सम्यक्त्वसामायिकम्, आह-यद्येवं किमिति मिथ्यादृष्टयः ?, उच्यते, यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्ग एव निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घयादी शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः, एतदुक्तं भवति-ऋजुसूत्रादयः सर्वे चारित्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org