SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ आवश्यक मूलसूत्रम्-१ चीवराणि छड्डियाणि, ताहे भिक्खं पविट्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरञ्जिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेन भणियं-अच्छउ एसा, तव देवयाए दिन्ना, तेन य दो सीसा पव्वाविया-कोडिन्नो कोट्टवीरे य, ततो सीसाण परंपराफासो जाआ, एवं बोडिया उप्पन्ना ।। अमुमेवार्थमुपसंजिहीर्षुराह मूलभाष्यकार:[भा.१४७] ऊहाए पन्नत्तं बोडियसिवभूइउताराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥ [भा.१४८] बोडियसिवभूईओ बोडियलिगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुप्पन्ना ॥ वृ- 'ऊहया' स्वतर्कबुद्ध्या 'प्रज्ञप्तं' प्रणीतं बोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमो'त्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ।। बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरश्च, 'सर्वो द्वन्द्वो विभाषया एकवद्भवती' ति कौण्डिन्यकोट्टवीरं तस्मात्, परम्परास्पर्शम्-आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-साता, बोटिकदृष्टिरध्याहरणीयेति गाथार्थः ॥ साम्प्रतं निह्नववक्तव्यतां निगमयन्नाहनि. (७८४) एवं एएकहिया ओसप्पिणीए उ निण्हया सत्त । वीरवरस्स पवयणे सेसाणं पव्वयणे नत्यि ॥ वृ- ‘एवम्' उक्तेन प्रकारेण ‘एते' अनन्तरोक्ताः ‘कथिताः' प्रतिपादिताः, अवसर्पिण्यामेव निह्नवाः सप्त अमी वीरवरस्य 'प्रवचने' तीर्थे, 'शेषाणाम्' अर्हतां प्रवचने 'नत्यि' तिन सन्ति, यद्वा नास्ति निवसत्तेति गाथार्थः ॥ नि. (७८५) मोत्तुणमेसिमिकं सेसाणं जावजीविया दिट्ठी । एकेकस्स य एत्तो दो दो दोसा मुणेयव्वा ॥ वृ-मुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधम शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वात्मा भूत् कश्चित् तथैव प्रतिपद्येत (तेति), अतो ज्ञाप्यते-निहवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च 'एत्तो' ति अतोऽमीषां मध्ये द्वौ द्वौ दोषौ विज्ञातव्यौ, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः, परस्परतो यथाऽऽहुर्बहुरता जीवप्रदेशिकान्-भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यद्भणथएकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र योज्यं, गोष्ठामाहिल मधिकृत्यैकैकस्य त्रयो दोषा इति यथाहुर्बहुरतान् गोष्ठामाहिलाः-दोषत्रयाद् भवन्तो मिथ्यादृष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः ॥ तत्रैता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृर्त्यर्थमाहनि. (७८६) सत्तेया दिट्ठीओ जाइजरामरणगब्मवसहीणं । ___ मूलं संसारस्स उ भवंति निग्गंथरूवेणं ॥ वृ- सप्तता इष्टयः, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy