________________
उपोद्घातः - [नि.७९१]
२८९ तथा मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाच्चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति पूर्वार्द्धभावना । 'सेसा महव्वया खलु तदेकदेसेण दव्वाणं' ति शेषाणि महाव्रतानि, खल्वित्यवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां, भवन्तीति क्रियाध्याहारः, कथम् ?-तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात्, षष्ठस्य च रात्रिभाजनविरतिरूपत्वादिति पश्चार्द्धभावना, इति गाथार्थः ॥ एवं चारित्रसामायिकं निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञाननात्मकत्वात् सर्वद्रव्यविषयमेव सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वात् सर्वविषयमेवेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र सामायिकजीवादिव्युदासेन जीव एवेत्युक्तं, तस्य च नयमतभेदेन द्रव्यगुणप्राप्तौ सकलनयधारद्रव्यार्थिकपर्यायार्थिकाभ्यां स्वरूपव्यस्थोपस्थापनायाहनि. (७९२) जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं ।
सो चेव पज्जवणयट्ठियस्स जीवस्स एस गुणो॥ वृ-'जीवः' आत्मा, गुणैः प्रतिपन्नः-आश्रितः-गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस्य' द्रव्यार्थिकस्य सामायिकमिति वस्तुत आत्मैव सामायिकं, गुणास्तु तद्व्यतिरेकेणानवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निनोन्नत-भेदप्रतिपत्तिवदिति भावना, स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य, परमार्थतो यस्याजीवस्य एष गुण इति, उत्तरपदप्रधानत्वात् तत्पुरुषस्य, यथा तैलस्य धारेति, न तत्र धाराऽतिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति, इत्थं चेदमङ्गीकर्तव्यमिति मन्यते, तथाहि-गुणातिरिक्तो जीवो नास्ति, प्रमाणानुपलब्धेः, रूपाद्यर्थान्तररूपघटवत्, तस्माद्गुणः सामायिकमिति हृदयं, न तु जीव इति गाथार्थः ॥ साम्प्रतं पर्यायार्थिक एव स्वं पक्षं समर्थयन्नाहनि. (७९३) उप्पज्जंति वयंति य परिणम्मति य गुणा न दव्वाई ।
दव्वप्पभवा य गुणा न गुणप्पभवाइं दव्वाइं॥ वृ- उत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति च गुणाः, चशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः-गुणा एव न द्रव्याण्युत्पादव्ययरूपेण परिणमन्तीति, अतस्त एव सन्ति, उत्पादव्ययपरिणामत्वात्, पत्रनीलतारक्ततादिवत्, तदतिरिक्तस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्, वान्धेयादिवत्, किञ्च 'दव्वप्पभवा य गुणा न' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात्, अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचरात्, तस्माद् गुणः सामायिकमिति गाथार्थः ।। एवं पर्यायार्थिकेन स्वमते प्रतिपादिते सति द्रव्यार्थिक आह-द्रव्यं प्रधानं न गुणाः यस्मात्नि. (७९४) जं जं जे जे भावे परिणमइ पओगवीससा दव्वं ।
तं तह जाणाइ जिनो अपज्जवे जाणणा नत्थि ।। [24] 19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org