SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १ २६ ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्तद्धर्यनुयोगश्च कर्त्तव्यः, अनुयोगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोक्ताः 'प्रतिपत्तयः' प्रतिपादनानि प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः । साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाहनामं ठवणादवि खित्ते काले भवे य भावे य । एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो || नि. (२९) वृ- तत्र नाम पूर्वं निरूपितं, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः । अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामावधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिर्द्रव्यावधिः, द्रव्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिर्द्रव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारकं शरीरादि तदवधिकारणत्वाद् द्रव्यावधिः । तथा क्षेत्रेऽवधिः क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः, अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यंपर्यायो वा, तस्मिन्नवधिः भावावधिः, चशब्दौ समुच्चयार्थी, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवकारार्थः, स चावधारणे, एष एव नान्यः, निक्षेपणं निक्षेपः, अवधेर्भवति 'सप्तविधः ' सप्तप्रकार इति गाथार्थः ॥ इदानीं क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थमाहजावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना, ओहीखित्तं जहन्नं तु ॥ नि. (३०) वृ- तत्र क्षेत्रपरिमाणं जघन्यमादौ अतस्तदेव तावप्रतिपाद्यते 'यावती' यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रं, 'जघन्यं' सर्वस्तोकं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - अवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थः योजनसहस्त्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः ॥ संहत्य चाद्यसमे, सह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलभिागबाहुल्यमानं तु ।। खकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् | संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या, तृतीयसमये तु संहृत्य ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy