SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पीठिका - [ नि. २५ ] २५ कावा । ३८२००९ आह- क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितं, नारकादिभवश्च औदयिकः, स कथं तासां प्रत्ययो भवतीति, अत्रोच्यते, ता अपि क्षयोपशमनिबन्धना एव, किं तु असावेव क्षयोपशमः तस्मिन्नारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थः ॥ साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीना वाचः क्रमवर्त्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारः नि. (२६) कत्तो मे वण्णेउं, सत्ती ओहिस्स सव्वपयडीओ ? | चउदसविहनिक्खेवं, इड्डीपत्ते य वोच्छामि ॥ वृ- कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृति : आयुषः परिमितत्वाद् वाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थं, चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः संबन्धिनं, आमर्षौषध्यादिलक्षणा प्राप्ता ऋद्धिर्यैस्ते प्राप्तर्धयः तांश्च, इह गाथाभङ्गभयाद्व्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तं प्रतिपादयनाह नि. (२७) ओही १ खित्तपरिमाणे, २ संठाणे ३ आनुगामिए ४ । अवट्ठिए ५ चले ६ तिव्वमन्द ७ पडिवाउत्पयाइ ८ अ ॥ वृ- तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुचितत्वात् पञ्चदशं । अन्ये त्वाचार्या अवधिरित्येतत्पदं परत्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षद्वयेऽपि अविरोध इति । तत्र 'अवधिरिति ' अवर्धर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति । तथा 'क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा 'अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जधन्यमध्यमोत्कृष्टभेदभिन्नं क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधेर्वक्तव्यम् । 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छइ' इत्यादि तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वारं' तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चाविशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधैर्वक्तवयौ ॥ नि. (२८) नाण ९ दंसण १० विब्भंगे ११, देसे १२ खित्ते १३ गई १४ इअ । पत्तानुओगे य, एमेआ पडिवत्तिओ ।। वृ- तथा ‘ज्ञानदर्शनविभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं ? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् । 'क्षेत्रद्वारं' क्षेत्रविषयोऽवधिर्वक्यतव्यः, संबद्धासंबद्धसंख्येया संख्येयापान्तराललक्षणाक्षेत्रावधिद्वारेणेत्यथः । 'गतिरिति च ' अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy