________________
२४
आवश्यक मूलसूत्रम् - १
तत्तोपसंगपारायणं च परिनिट्ठ सत्तमए ॥
वृ- 'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये बाढत्कारं कुर्यात्, बाढमेवमेतत् नान्यथेति चतुर्थश्रवणे तु गृहीतपूर्वा-परसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात्, मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवतिगुरुवदनुभाषत् एव सप्तमश्रवण इत्ययं गाथार्थः ॥
एवं तावच्छ्रवणविधिरुक्तः, इदानीं व्याख्यानविधिमभिधित्सुराहनि. (२४) सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणिओ । तइओ य निरवसेसो, एस विही भणिअ अनुओगे ||
वृ- सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवतिगुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिसंमोहः, 'द्वितीयः' अनुयोगः सूत्रस्पर्शिक नियुक्तिमिश्रकः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते युस्मिन् स एवं लक्षणो निरवशेषः, कार्य इति, स 'एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादिः जिनादिभिः, क्क ? सूत्रस्य निजेन अभिधेयेन सार्धं अनुकूलोयोगः अनुयोगः सूत्रव्याक्यानमित्यर्थः, तस्मिन्ननुयोगऽनुयोगविषय इति, अयं गाथार्थः ॥ समाप्तं श्रुतज्ञानम् ॥ उक्तप्रकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाह
नि. (२५)
संखाईआओ खलु, ओहीनाणस्स सव्वपयडीओ । काओ भवपच्चइया, खओवसमिआओ काओवि ॥
वृ- संखानं संख्या तामतीताः संखयातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि ? - क्षेत्रकालख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्यज्ञेयापक्षया चानन्ता इति, 'अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं भवति यस्मादवधे ः लोक क्षेत्रासंखयेयभागादारभ्य प्रदेशवृद्धया असंख्येयलोकपरिमाणं उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तत्प्रकृतयः इति, तथ तैजसवाग्द्रव्यापान्तरालवर्त्त्यनन्तप्रदेशकाद् द्रव्यादारभ्य विचित्रवृद्धया सर्वमूर्त्तद्रव्याणि उत्कृष्टं विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकायं तत्पर्यार्यांश्चाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः - कारणं यासां ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत्, ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यङ्नराणामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org