________________
पीठिका - [ नि. ३० ]
२७
उत्पद्यते च पनकः, खदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ तावज्जधन्यमवधेरालम्बन्वस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ।।
अत्र कश्चिदाह-किमिति महामत्स्यः ? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः ? त्रिसमयाहारकत्वं वा कल्प्यत इति ?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्ग्रहणमिति । अन्ये तु व्याचक्षतेत्रिसमाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेषु इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तप्रमाण जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायायविष्कम्भ - संहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपक्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥
एवं तावत् जघन्यमवधिक्षेत्रमुक्तं, इदानीं उत्कृष्टमभिधातुकाम आह नि. (३१) सव्वबहुअगनिजीवा, निरंतरं जत्तियं भरिजासु । खित्तं सव्वदिसागं, परमोही खित्त निट्ठिो ||
वृ- सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्यदुभ्यः, नापि शेषजीवेभ्यः, कुतः !, असंभवात्, अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, 'निरन्तरं' इति क्रिया विशेषणं 'यावत्' यावत्परिमाणं 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्रं' आकाशं, एतदुक्तं भवति नैरन्तर्येण विशिष्टसूचीरचनया यावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां इत्यस्यार्थस्य ख्यापनार्थः, इदं चानन्तरोदितिविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह—'सर्वदिक्कं' अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, 'क्षेत्रं' अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः, प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति । अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्तव एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणितत् परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते तत्र सर्वबह्वग्निजील बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्मश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति । तेषां च स्वबुद्धया षोढाऽवस्थानं कल्प्यते - एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्त्रो धनः प्रथमं, स एव जीवः स्वावगाहनया द्वितीयं एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् क्षेत्रविभागान् व्याप्नोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org