________________
२५४
आवश्यक मूलसूत्रम्-१
तथा 'नाणत्ति' त्ति नानाभावो नानाता-भिन्नता, सा च लक्षणं, सा पुनश्चतु - द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो नानाता द्विधा-तद्रव्यनानाता अन्यद्रव्यनानाता च, तत्र तद्रव्यनानाता परमाणूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता परमाणोदयणुकादिभेदभिन्नता, एवमेकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुकानां तदतन्नानाता वाच्या, इदं च लक्षणं पदार्थस्वरूपावस्थापकत्वात् 'निमित्तं ति लक्ष्यते शुभशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणं, तच्चाष्टधा, उक्तं च - ___“भोमसुमिणंतरिक्खं दिव्वं अंगसर लक्खणं तह य ।
वंजणमट्टविहं खलु निमित्तमेयं मुणेयव्वं ॥" स्वरूपमस्य ग्रन्थान्तरदवसेयम् ।। 'उपपाद' त्ति यतो नानुत्पन्नं वस्तु लक्ष्यते अत उत्पादोऽपि वस्तुलक्षणं, 'विगमोय' त्ति विगमश्च विनाशश्च वस्तुलक्षणं, तमन्तरेणोत्पादाभावात्, न हि वऋतयाऽविनष्टमङ्गुलिद्रव्यं ऋजुतयोत्पद्यत इति भावनेति गाथार्थः ॥ नि. (७५२) वीरियभावे य तहा लक्खणमेयं समासओ भणियं ।
अहवावि भावलक्खण चउब्विहं सद्दहणमाई ॥ वृ- 'वीरियं' ति वीर्य-सामर्थ्यं यद्यस्य वस्तुनः तदेव लक्षणं वीर्यलक्षणम्, आह च भाष्यकारः
"विरियंति बलं जीवस्स लक्खणं जं च जस्स सामत्थं ।
दव्वस्स चित्तरूवं जह विरियं महोसहादीणं ॥" तथा भावानाम्-औदयिकादीनां लक्षणं पुद्गलविपाकादिरूपं भावलक्षणं, यथोदयलक्षणः औदयिकः, उपशमलक्षणस्त्वौपशमिकः, तथानुत्पत्तिलक्षणः क्षायिको, मिश्रलक्षणः क्षायोपशमिकः, परिणामलक्षणः पारिणामिकः, संयोगलक्षणः सान्निपातिक इति । अथवा भावाश्च ते लक्षणं चात्मन इति भावलक्षणं, तत्र सामायिकस्य जीवगुणत्वात् क्षयोपशमोपशमक्षयस्वभावत्वाद् भावलक्षणता, अमुमेवार्थं चेतस्यारोप्याह-'भावे य' इत्यादि, भावे च-विचाठमाणे तथा लक्षणमिदं “समासतः' सक्षेपतो भणित । सामायिकस्य वैशेषिकलक्षणाभिधित्सयाऽऽह'अहवावि भावलक्खण चउव्विधं सद्दहणमादी' अथवाऽपि भावस्य-सामायिकस्य लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः ॥ यदुक्तं-'चतुर्विधं श्रद्धानादि' तप्रदर्शनायाहनि. (७५३) सद्दहण जाणणा खलु विरती मीसाय य लक्खणं कहए।
तेऽवि निसामिति तहा चउलक्खणसंजुयं चेव ॥ वृ-इह सामायिकं चतुर्विधं भवति, तद्यथा-सम्यक्त्वासामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिकं च, अस्य यथायोगं लक्षणं 'सद्दहणं' ति श्रद्धानं, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, 'जाणण'त्ति ज्ञानं ज्ञ-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खुलशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, 'विरति'त्ति विरमणं विरतिः-अशेषसावद्ययोगनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा य' ति मिश्रा-विरताविरतिः, सा च चारित्राचारित्रासामायिकस्य लक्षणं, कथ्यतत्यनेन स्वमनीषिकाऽपोहने शास्त्रपारतव्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः 'तेऽपि' गणधरादयः 'निशामयन्ति' शृण्वन्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org