________________
उपोद्घातः - [ नि. ७५३ ]
' तथा ' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः ॥ उक्तं लक्षणद्वारम् अधुना नयद्वारं प्रतिपिपादयिषुराहनि. (७५४) नेगमसंगहववहारउज्जुसुए चेव होइ बोद्धव्वे । स य समभिरूढे एवंभूए य मूलनया ।
वृ- नयन्तीति नयाः - वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः, ते च नैगमादयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः ॥
अवयवार्थं तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह चहिं माहिं मिणइत्ती नेगमस्स नेरुत्ती ।
नि. (७५५)
सेसाणंपि नयाणं लक्खणमिणमो सुणेह वोच्छं ||
वृ- न एकं नैकं- प्रभूतानीत्यर्थः, नैकैर्माने :- महासत्तासामान्यविशेषज्ञानैर्मिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः पदार्थपरिच्छेदाः, तत्र सर्वं सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामानवशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेषं परमाणुमिति । आह-इत्थं तर्ह्ययं नैगमः सम्यग्धष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवं सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकारः
"जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिन्ने । मन्नइ अचंतमतो मिच्छद्दिट्ठी कणातोव्व ॥ दोहिवि नएहि नीतं सत्थुलूएण तहवि मिच्छत्तं ।
जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा || "
अथवा
निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः
खल्वयमवसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाथार्थः ॥
नि. (७५६)
संगहियपिंडियत्थं संगहवयणं समासओ बेंति ।
वच विनिच्छियत्थं ववहारो सव्वदव्वेसुं ॥
वृ- आभिमुख्येन गृहीतः - उपात्तः सङ्घहीतः पिण्डितः एकजातिमापन्नः अर्थो विषयो यस्य तत्सङ्गृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्क्षपतः ब्रुवते तीर्थकरणगणधरा इति, एतदुक्तं भवति - सामान्यप्रतिपादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते - विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात्, खपुष्पवत्, अथानर्थान्तरभूताः सामान्यमात्रं ते, तद्व्यतिरिक्तत्वात्, तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 'वच्चति' इत्यादि व्रजति गच्छति निःआधिक्येन चयनं चयः अधिकश्चयो निश्चयः - सामान्यं विगतो निश्चयो विनिश्चयः- निःसामान्यभावः तदर्थं तन्निमित्तं, सामान्यभावायेति भावना, व्यवहारो नयः, क्व ? - 'सर्वद्रव्येषु' सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु अयं हि सदित्युक्ते
Jain Education International
For Private & Personal Use Only•
www.jainelibrary.org
२५५