________________
२५३
उपोद्घातः - [नि.७४९] ति भावप्रत्ययेनेति गाथार्थः । अत एवाहनि. (७५०) केवलनाणित्ति अहं अरहा सामाइयं परिकहेई ।
तेसिंपि पच्चओ खलु सव्वण्णू निसामिति ॥ वृ- केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत् एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, 'तेषामपि' श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययश्रः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कैश्चिदुक्तं-'सर्वज्ञोऽसाविति ह्येतत्तत्कालऽपि बुभुत्सुभिः। तत्ज्ञानज्ञेयविज्ञानरहितैगम्यते कथम् ?॥' इत्यादि, तद्ध्युदस्तं वेदितव्यम्, अन्यथा चतुर्वेद पुरुष लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः ।
गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारावयवार्थप्रतिपादनायाहनि. (७५१) नाम ठवणा दविए सरिसे सामण्णलक्खणागारे ।
गइरागइ नाणत्ती निमित्तं उप्पाय विगमे य ॥ वृ- लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्व्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धर्मास्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्साद्दश्यसामान्यदिलक्षणभेदतो निरुप्यते-तत्र 'सरिसे' त्ति साध्श्यं लक्षणम्, इहत्यघटसध्शः पाटलिपुत्रको घट इति, 'सामन्नलकखणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सद्रव्यजीवमुक्तादिधर्मैः सामान्यमिति, 'आगार'त्ति आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो-बाह्यचेष्टारूपः, स एवान्तराकूतगमकरूपत्वाल्लक्षणमिति, उक्तं च -
“आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ।।" इति, 'गइरानई ति गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलं गमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं, तच्चतुर्धा-पूर्वपदव्याहतमुत्तरपदवहतमुभयपदव्याहतमुभयपदाव्याहतमिति, तत्र पूर्वदव्याहतोदाहरणम्- 'जीवे ण भंते ! नेरइए ? नेरइए जीवे ?, गोयमा ! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण नियमा जीवे' उत्तरपदवहतोदाहरणम्-'जीवइ भंते ! जीवे जीवे जीवइ ?, गोयमा ! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ सिय नो जीवइ' सिद्धानां जीवनाभावादिति हृदयम्, उभयपदव्याहतोदाहरणम्-‘भवसिद्धिए णं भंते ! नेरइए, नेरएइ भवसिद्धिए?, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए, नेरइएवि सिय भवसिद्धिए सिय अभवसिद्धिए' उभयपदाव्याहतोदाहरणम्-जीवे भंते ! जीवे जीवे जीवो?, गोयमा ! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाजीवः जीवोऽपि नियामदुपयोग इति भावना । लोकेऽपि गत्यागतिलक्षणं -
'रूवी य घडोत्ति चूतो दुमोत्ति नीलोप्पलं च लोगंमि । जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org