________________
उपोद्घातः - [ नि.६९१]
नि. (६९१) आवस्सियं च नितो जं च अतो निसीहियं कुणइ । एयं इच्छं नाउं गणिवर ! तुब्भंतिए निउणं ॥
वृ- शिष्यः किलाह - 'आवस्सिय 'ति आवश्यकी - पूर्वोक्ता तामावश्यकीं च 'निन्तो' निर्गच्छन् यां च ‘अतितो' त्ति आगच्छन्, प्रविशन्नित्यर्थः, नैषेधिकीं करोति, 'एतद्' आवश्यकीनैषेधिकीद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातु हे गणिवर ! युष्मदन्तिके 'निपुणं' सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः ॥ एवं शिष्येणोक्ते सत्याहाचार्यःनि. (६९२ ) आवस्सियं च निंतो जं च अतो निसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुन होइ सो चेव ॥
वृ- आवश्यकीं च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जनं' शब्दरूपं 'एतं तु दुह 'त्ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीनैषेधिक्योः 'स एव' एक एव, यस्मादवश्यंकर्त्तव्ययोगक्रियाऽऽवश्यिकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया नैषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्घ्य प्रवर्त्तते, आह- यद्येव भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाच्चेति गाथार्थः । आह- ' आवश्यकीं च निर्गच्छ' नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति ?, उच्यते, अवस्थानमिति कथम् ?,
यत आह
नि. (६९३) एगग्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ||
वृ- एकमग्रम्-आलम्बनमस्येत्येकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवत्यत आह'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम ?, न भवन्ति ईर्यादयः, ईरणमीर्य्या-गमनमिर्त्यः, इहैय्र्याकार्यं कर्म ईयशब्देन गृह्यते, कारणे कार्योपचाराद्, ईर्ष्या आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तहिं संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तद्यमवस्सं कारणंमि' गन्तव्यम् 'अवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च कारणे गच्छतः 'आवस्सिया होइ' आवश्यकी भवतीति गाथार्थः ।। आह-कारणन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति ?, नेति, कस्य तर्हि ?, उच्यते, -
नि. (६९४) आवस्सिया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स । मनवयणकायगुत्तिंदियस्स आवस्सिया होई ।।
२३७
वृ- आवश्यकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मन' इत्यादि पश्चार्द्ध मनोवाक्कायेनिद्रयैर्गुप्त इति समासः, तस्य, किम् ? - आवश्यकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाद्व्यवहितोपन्यासः कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम्, अस्थि चायं न्यायः-'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो' यथा - ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः । उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकीं प्रतिपादयन्नाह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
,