________________
२३८
आवश्यक मूलसूत्रम्-१
नि. (६९५) सेज्जं ठाणं च जहिं चेएइ तहिं निसीहिया होइ ।
जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ॥ वृ- शेरतेऽस्यामिति शय्या-शयनीयस्थानं तां शय्यां 'स्थानं चे' ति स्थानमूलस्थानं, कायोत्सर्गः, यत्र 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्याक्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः,अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथम् ?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तत्र' एवं विधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वात्तस्या इति गाथार्थः ॥ पाठान्तरं वानि. (६९६) सेजं ठाण च जदा चेतेति तया निसीहिया होइ ।
जम्हा तदा निसेहो निसेहमइया च सा जेणं ॥ वृ- इयमुक्तार्थत्वात्सुगमैव । अनेन ग्रन्थेन मूलगाथायाः ‘आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकी करोति व्यञ्जनमेतद् द्वेधे' त्येतावत् स्थितिरूपनैषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् । अमुमेवार्थमुपसञ्जिहीर्षुराह भाष्यकारः[भा.१२०] आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ ।
सेज्जानिसीहियाए निसीहियाअभिमुहो होई ॥ वृ- आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम्, उपलक्षणत्वात्सह तृतीयपादेन 'व्यञ्जनमेतद् द्विधे' त्यनेनेति । साम्प्रतम् ‘अर्थः पुनर्भवति स एव' ति गाथावयवार्थः प्रतिपाद्यते -तोत्थमेक एवार्थो भवति-यस्मान्नैषेधिख्यपि नावश्यंकर्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थं चेत्थमाह । 'सेन्जानिसीहियाए निसीहियाअभिमुहो होइ'त्ति शय्यैव नैषेधिकी तस्यां शय्यानैषेधिक्यां विषयभूतायां, किम ? शरीरमपि नैषेधिकीत्युच्यत इति, अत आह-शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैभवितव्यमिति सञ्ज्ञां करोतीति गाथार्थः ।
इतश्चैक एवार्थो यत आह[भा.१२१] जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ।
अनिसिद्धस्स निसीहिय केवलमेत्तं हवइ सद्दो । वृ- यो भवति निषिद्धात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा येनेति समासः, नैषेधिकी 'तस्य' निषिद्धात्मनो ‘भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य अनुपयुक्तस्यागच्छतः नैषेधिकी, किम ?-'केवलमेत्तं हवइ सद्दो' केवलं शब्दमात्रमेव भवति, न भावत् इति गाथार्थः ।। आह-यदि नामैवं तत एकार्थतायाः किमाथतमिति ?, उच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्तं, स च[भा.१२२] आवस्सयंमि जुत्तो नियमनिसिद्धोत्ति होइ नायव्यो ।
___ अहवाऽवि निसिद्धप्पा नियमा आवस्सए जुत्तो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org