________________
२३६
एसो मिच्छाउक्कडपयक्खरत्यो समासेणं ॥
वृ- 'क' इत्ययं वर्णः कृत मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 'ड' इति च 'डेवेमि तं' ति लङ्घयामि - अतिऋमामि तत्, केनेत्याह-उपशमेन हेतुभूतेन, 'एषः' अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति 'समासेन' सङ्क्षेपेणेति गाथार्थः । आह-कथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकक्षरेषु तदभावादिति, प्रयोगश्च-इह यद्यत्र प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपर्त्तर्वर्णार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति ।
साम्प्रतं तथाकारो यस्य दीयते तठप्रतिपिपादयिषयाऽऽहनि. (६८८) कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजमतवड्डगस्स उ अविकप्पेणं तहाकारो ॥
वृ- कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि - महाव्रतान्यभिधीयन्ते तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामाढ्यः - सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्य किमित्याह-'अविकल्पेन' निश्चयेन, किम् ? - तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः । इदानीं तथाकारविषयप्रतिपादनायाहनि. (६८९)
आवश्यक मूलसूत्रम् - १
वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितमेति तहा डिसुणणाए तहक्कारो ॥
वृ- वाचना- सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणं-प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां, तथाकारः कार्यः, एतदुक्तं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे - चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा 'सुत' त्थकहणाए 'थि सूत्रार्थकथनायां व्याख्यान इत्यर्थः, किम ? - तथाकारः कार्यः, तथाकार इति कोऽर्थ इति ?, आह-अवितथमेतत् यदाहुर्यूमिति, न केवलमुख्तेष्वेवार्थेषु तथाकारप्रवृत्तिः, तथा 'पडिसुणणाए' त्ति प्रतिपृच्छोत्तरकालमाचायें कथयति सति प्रतिश्रवणायां तथाकारप्रवृत्तिरिति, चशब्लोपोऽत्र द्रष्टव्य इति गाथार्थः ॥
Jain Education International
साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाहनि. ( ६९०) जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहक्कारो न दुल्लभा सोग्गई तस्स ॥
वृ- यस्य चेच्छाकारो मिथ्याकारश्च परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव । साम्प्रतमावश्यकीनैषेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह
For Private & Personal Use Only.
www.jainelibrary.org