________________
उपोद्घातः - [नि.६८२]
.. २३५ किम् ? -'मिच्छत्ति कायव्वं' मिथ्यादुष्कृतं दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालं, न तूपेत्यकरणगोचरायां नाप्यसकृतत्करणगोचरायामिति गाथाहृदयार्थः । तथा चोत्सर्गमेव प्रतिपादयन्नाहनि. (६८३) जइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम ।
तं चेव न कायव्वं तो होइ पए पडिकंतो॥ वृ- यदि च 'प्रतिक्रान्तव्यं निवर्तितव्यं, मिथ्यादुष्कृतं दातव्यमित्यर्थः, 'अवश्यं' नियमेन कृत्वा पापकं कर्म, ततश्च 'तदेव' पापकं कर्म न कर्त्तव्यं, ततो भवति ‘पदे' उत्सर्गपदविषये प्रतिक्रान्त इति । अथवा-'पद'त्ति प्रथमं प्रतिक्रान्त इति गाथार्थः ।।
साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथा भूतमभिधित्सुराहनि. (६८४) जं दुक्कडंति मिच्छा तं भुजो कारणं अपूरंतो ।
तिविहेण पडिक्कतो तस्स खलु दुक्कडं मिच्छा ॥ वृ- 'यदि' त्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च यत्कारणं' यद् वस्तु दुष्ठु कृतं दुष्कृतम् ‘इति' एवं विज्ञाय 'मिच्छत्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तं, तद् ‘भूयः' पुनः प्रागुक्तं दुष्कृतकारणम् 'अपूरयन्' अकुर्वननाचरनित्यर्थः, यो वर्तते इति वाक्यशेषः, 'तस्स खलु दुक्कडं मिच्छत्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्य-कुर्वन्नपूरयन्नभिधीयत एवेत्यत आह–'तिविहेण पडिक्कतो' त्ति त्रिविधेन मनोवाक्कायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन 'प्रतिक्रान्तो' निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, 'दुष्कृतं' प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य 'मिथ्ये' ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः ।।
साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाहनि. (६८५) जं दुक्कडंति मिच्छा तं चेव निवेसए पुणो पावं ।
पञ्चक्खमुसावाई मायानियडीपसंगो य ।। वृ- 'यत्' पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि प्रत्यक्षमृषावादी वर्तते, कथम् ?-दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा मायानिकृतिप्रसङ्गश्च तस्य, स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थं मिथ्यादुष्कृतं प्रयच्छति, कुतः?, पुनरासेवनात्, तत्र मायैव निकृतिायानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाहनि. (६८६) मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ ।
मित्ति य मेराएँ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ वृ- 'मी' त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्वं-कायनम्रता मार्दवत्वं-भावनम्रतेति, 'छे' ति च दोषस्य-असंयमयोगलक्षणस्य छादने-स्थगने भवति, 'मी' ति चायं वर्णः मर्यादायांचारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु' इत्ययं वर्णः जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्तत इति गाथार्थः ।
नि. (६८७) कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org