________________
उपोद्घातः - [नि.६६८]
२३१ 'परम्' अन्यं साधुग्लानादौ कारणजाते कुर्यात् वा, ‘से' तस्य कर्तुकामस्य 'कश्चिद्' अन्यसाधुः, तत्र कारणजातग्रहणममुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिना न्यक्षेण वक्ष्यति, किमित्येवमत आह-न कल्पत एव बलाभियोग इति गाथार्थः ॥ '
उक्तगाथावयवार्थप्रतिपादनायैवाहनि. (६६९) अब्भुवगमंमि नजइ अब्भत्थेउं न वट्टइ परो उ ।
अनिगूहियबलविरिएण साहुणा ताव होयव्वं ॥ वृ- 'यद्यभ्यर्थयेत् पर' मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याहअभ्यर्थयितुं 'न वर्तते' न युज्यते एव परः, किमित्यत एवाह-न निगृहिते बलवीर्ये येनेति समासः, बलं-शारीरं वीर्यम्-आन्तरः शक्तिविशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगूहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति । पाठान्तरं वा 'अनिगूहियबलविरिएण साहुणा जेण होयव्वं' ति, अस्यायमर्थः-येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्थयितुं न वर्त्तते पर इति गाथार्थः ॥
आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छा-कारोपन्यासोऽनर्थक इति ?, उच्यते, नि. (६७०) जइ हुञ्ज तस्स अनलो कज्जस्स वियाणती य वा वाणं ।
गिलाणाइहिं वा हुज्ज वियावडो कारणेहिं सो ॥ वृ-यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम् ?-'अनलः' असमर्थः विजानाति न वा, वाणमिति पूरणार्थो निपातः, ग्लानादिभिर्वा भवेशद्यापृतः कारणैरसौ तदा सातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रलाधिकं विहायान्येषां करोतीति गाथार्थः ॥ आह चनि. (६७१) राइनियं वज्जेत्ता इच्छाकारं करेइ सेसाणं ।
एवं मज्झं कजं तुब्भे उ करेह इच्छाए । कृ-रत्नानि द्विधा-द्रव्यरलानि भावरलानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनताङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च, भावरलैरधिको रलाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-इदं मम कार्यं वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः ॥ 'जइ अब्भत्थेज्ज परं कारणजाए'त्ति एतावन्मूलगाथाया व्याख्यातं, साम्प्रतं 'करेज से कोइ' त्ति अस्य गाथाऽवयवस्यावयवार्थं प्रतिपादयति, अत्रान्यकरणसम्भवे कारण-प्रतिपादनायाह-- नि. (६७२) अहवाऽवि विनासेंतं अब्भत्थेतं च अन्न दलूणं ।
अन्नो कोइ भणेजा तं साहुं निजरट्ठीओ ॥ वृ- तत्र 'अहवावि विनासेंत' ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यःविनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कञ्चन अन्यं साधुं दृष्ट्वा किमित्याह-'अन्यः' तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः ।। किमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org