________________
२३२
आवश्यक मूलसूत्रम्-१
नि. (६७३) अहयं तुब्भं एयं करेमि कज्जं तु इच्छकारेणं ।
तत्थऽवि सो इच्छं से करेइ मज्जायमूलियं ॥ वृ- अहमित्यात्मनिर्देशे युष्माकम् ‘इदं' कर्तुमिष्टं कार्य करोमि ‘इच्छाकारेण' युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि ‘स' कारापकः साधुः ‘इच्छं से करेइत्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याहमर्यादामूलं, साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः। व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारो'त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाहनि. (६७४) अहवा सयं करेंतं किंची अन्नस्स वावि दटूणं ।
तस्सवि करेज्ज इच्छं मज्झंपि इमं करेहित्ति ॥ वृ- अथवा 'स्वकम्' आत्मीयं कुर्वन्तं 'किञ्चित्' पात्रलेपनादि अन्यस्य वा दृष्ट्वा किम् ?-तस्याप्यापनप्रयोजनः सन् कुर्यादिच्छाकारं, कथम्?-ममापीदं-पात्रलेपनादि कुरुतेति गाथार्थः ॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽहनि. (६७५) तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि ।
इहरा अनुग्गहत्थं कायव्वं सुहाणो किच्चं ॥ वृ-तत्रप्यभ्यर्थितः सन् ‘इच्छाकारं करोति' इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्तव्यमिति तदा दीपयति कारणं वापि, 'इहरा' अन्यथा गुरुकार्यकर्त्तव्याभावे सति अनुग्रहार्थ कर्तव्यं साधोः कृत्यमिति गाथार्थः ।
अपिशब्दाक्षिप्तेच्छाकारविषय-विशेषप्रदर्शनार्यवाहनि. (६७६) - अहवा नाणाईणं अट्ठाएँ जइ करेज्ज किच्चाणं ।
वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा ॥ वृ- अथवा ज्ञानादीनामय, आदिग्रहणाद्दर्शनचारित्रग्रहणं, यदि कुर्यात् ‘कृत्यानाम्' आचार्याणां वैयावृत्त्यं 'कश्चित्' साधुः, पाठान्तरं वा 'किंचित्ति किश्चिद्विश्रामणादि, तत्रापि 'तेषां' कृत्यानां तं साधुं वैयावृत्त्ये नियोजयतां भवे इच्छे' ति भवेदिच्छाकारः, इच्छाकारपुरः सरं योजनीय इति गाथार्थः ॥ किमित्यत आह-यस्मातनि. (६७७) आणाबलाभिओगो निग्गंथाणं न कप्पई काउं ।
इच्छा पउंजियव्वा सेहे राईनिए (य) तहा ॥ वृ- आज्ञापनामाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणं बलाभियोय इति, स 'निर्ग्रन्थानां' साधूनां न कल्पते कर्तुमिति, किन्तु 'इच्छत्ति इच्छाकारः प्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षके तथा रत्नाधिके चालापकादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः। एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः-प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च
नि. (६७८) जह जच्चबाहलाणं आसाणं जनवएसु जायाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org