________________
२३०
आवश्यक मूलसूत्रम् - १
कर्मणि च” ष्यञ् समाचार्य्यं, पुनः स्त्रीविवक्षायां षिगौरादिभ्यश्चे ति ङीष्, यस्ये त्यकारलोपः, यस्य हल इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम् - उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति समासः यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, तत्र हि कालकालवतौरभेदात् कालस्यैव आयुष्काद्युपाधिविशिष्टिस्योपऋमो वेदितव्य इत्यभिप्रायः । तत्र सामाचारी त्रिविधा- 'ओहे दसहा पदविभागे' त्ति 'ओघः' सामान्यम्, ओघः सामाचारी सामान्यतः सङ्क्षेपाभिधानरूपा, सा चोघनियुक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमाव्प्राभृतात्, तत्राप्योघप्राभृतप्राभृतात् निर्व्यूढेति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानां तावच्छ्रुतपरिज्ञानशक्तिविकलानामायुष्कादिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ निर्व्यूढेति । पदविभागसामाचार्य्यपि छेदसूत्रलक्षणान्नवमपूर्वादिव निर्व्यूढेति गाथार्थः ॥ साम्प्रतमोघनियुक्तिर्वाच्या, सा च सुप्रपञ्चितत्वादेव न विव्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाहनि. (६६६ ) इच्छा मिच्छा तहाकारो, आवसिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥ उवसंपया य काले, सामायारी भवे दसहा । एएसिं तु पयाणं पत्तेय परूवणं वोच्छण ॥
नि. (६६७)
वृ- एषणमिच्छाकरणं कारः, तत्र कारशब्दः प्रत्येकभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपूर्विकयेति भावार्थ: १, तथा मिध्या- वितथ मनृतमिति पर्यायाः, मिध्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः तथा च संयमयोगवितथाचरणे विदित जिनवचनसाराः साघवस्तत्क्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं २, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवस्वरूपः ३, अवश्यकर्त्तव्यैयोगैर्निष्पन्ना आवश्यिकी ४, चः समुच्चये, तथा निषेधेन निर्वृत्ता नैषेधिकी ५ आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या ६, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्नियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्त्तुकामेनेति, तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या ९, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता ९, उपसम्पच्च विधिनाऽऽदेया १० | एवं 'काले' कालविषया सामाचारी भवेद्दशविधा तु । एवं तावत्समासत उक्ताः साम्प्रतं प्रपञ्चतः प्रतिपदमभिधित्सुराह - एतेषां पदानां, तुर्विशेषणे, गोचरप्रदर्शनेन 'प्रत्येकं' पृथक् पृथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः ॥
1
तत्रेच्छाकारो येष्वर्थेषु क्रियते तप्रदर्शनायाहनि. (६६८)
,
जइ अब्भत्थेज परं कारणजाए करेज से कोई । तत्थवि इच्छाकारोन कप्पई बलाभिओगो उ ||
वृ- 'यदी' त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org