________________
उपोद्घातः - [ नि. ६६१]
२२९
स्थानं-स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा 'द्रव्यं तु' तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः । चेतना चेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह
नि. (६६२) गइ सिद्धा भवियाया अभविय पोग्गल अनागयद्धा य । तयद्ध तिनि काया जीवाजीवट्ठिई चउहा ||
वृ- 'गति'त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध' त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः 'भवियाय'त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'पोग्गल’त्ति पूरणगलनधर्माण: पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, 'अनागयद्ध' त्ति अनागताद्धा–अनागतकालः, स हि वर्त्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसान इति, 'तीयद्धा 'त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, 'तिणि काय'त्ति धर्माधर्माकाशस्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवास्थितिश्चतुद्धेति गाथार्थः । अद्धाकालद्वारावयवार्थ व्याचिख्यासुराह
नि. (६६३) समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य संवच्छर युग पलिया सागर ओसप्पि परियट्टा ।।
वृ- तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टशटिकापाटनद्दष्टान्तादवसेयः, आवलिका असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्त:, दिवसश्चतुष्प्रहरात्मकः, यद्धा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्निराहिमत्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासः तद्विगुणः, चः समुच्चये, संवत्सरो- द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्खयेययुगात्मकं पलितमिति उत्तरपदलोपाद, इत्थं सागरोपममपि तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी- सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यपि, परावर्त्तोऽनन्तोत्सपिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः ॥ यथाऽऽयुष्ककालद्वार-मुच्यते तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्त्तनादिमयो यथायुष्क- कालोऽभिधीयते, तथा चाह
2
-
नि. (६६४)
नेरइयतिरियमनुयादेवाण अहाउयं तु जं जेण ।
निव्वत्तियमन्नभवे पालेंति अहाउकालो सो ॥
वृ- नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्त्तितं रौद्रध्यानादिना कृतम 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः ।
साम्प्रतमुपक्रमकालद्वारमाहनि. (६६५)
दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥
वृ- द्विविधश्चासायुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शन्नाह - 'सामायारी अहाउअं चेव' समाचरणं समाचारः- शिष्टाचरितः क्रियाकलापस्तस्य भावः “गुणवचनब्राह्मणादिभ्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org