SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ नि. (६५७) आवश्यक मूलसूत्रम् - १ सव्वे यमाहा जच्चा, सव्वें अज्झावया विऊ । सव्वे दुवालसंगी य, सव्वे चोहसपुव्विणो ॥ वृ- सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, 'विद्वांसः' पण्डिताः, अयं गृहस्थागमः, तथा सर्व्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्ण ज्ञापनार्थमाह- सर्वे चतुर्द्दशपूर्विण इति गाथार्थः ॥ परिनिर्वाणद्वारमाह नि. (६५८) परिनिव्वुया गणहरा जीवंते नायए नव जना उ । इंदमूई सुहम्मो य रायगिहे निव्वुए वीरे ॥ वृ- निगदसिद्धा । तपोद्वारप्रतिपादनायाहनि. (६५९) मासं पाओवगया सव्वेऽवि य सव्वलद्धिसंपन्ना । वज्ररिसहसंघयणा समचउरंसा य संठाणा || वृ- 'मासं पायोवगय' त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः प्राप्ताः, द्वारगाथोपन्यस्तच शब्दार्थमाह- सर्वेऽपि च सर्वलब्धिसम्पन्नाः - आमर्षौषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्त्राश्च संस्थानत इति गाथार्थः । उक्तः सामायिकार्थसूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुल्लङ्घ्य कालद्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् 'अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवान्' इति परिभाषासामर्थ्यादिति, निर्युक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथापिन्यासः कृत इति । स च कालो नामाद्येकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽह नि. (६६०) दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ वृ- तत्र 'द्रव्य' इति वर्त्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धे' त्ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा 'उपक्रमकालः' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरं, ततश्चाभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः चः समुच्चये, तथा च 'प्रमाणकालः' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, 'भावि' त्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं तु भावेने' ति भावकालेनाधिकार इति गाथासमुदायार्थः । साम्प्रतमवयवार्थोऽभिधीयते तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽह नि. (६६१) चेयणमचेयणस्स व दव्वस्स ठिइ उ जा चउवियप्पा । सा होइ दव्वकालो अहवा दवियं तु तं चेव ।। वृ- चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy