________________
आवश्यक मूलसूत्रम् - १
दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात्, पुण्यप्रकर्षानुभूतिवत्, न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः ।
२२४
केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असध्शश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात्, न च सर्वथा सम्मिश्रैकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्य्यमन्यतमवर्णोत्कटतां बिभर्त्ति तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति । न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि यतः - सद्वेद्य सम्यक्त्वहास्यरतिपुरुषवेदशुभायु-र्नामगोत्राणि पुण्यमन्यत्पाप मिति, सर्वं चैतत्कर्म, तस्माद्विविक्ते पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति किञ्जित्कस्यचिदुपशान्तं किञ्जित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तनामिति ।
नि. (६३३)
छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं || वृ- पूर्ववत् । नवमो गणधरः समाप्तः ॥ नि. (६३४)
ते पव्वइए सोउं मेयज्जो आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पजुवासामि ॥
वृ- व्याख्या - पूर्ववन्नवरं मेतार्यः आगच्छतीति ॥ नि. (६३५)
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं नामे य गोत् य सव्वण्णू सव्वदीरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव ।
नि. (६३६) किं मन्ने परलोगो अत्थि नत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्यो ||
वृ- किं परलोको - भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि - 'विज्ञानघने 'त्यादीनि, तथा 'स वै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः ?, तस्यात्मनोऽप्रच्ययुतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थं न जानासि तेषामयमर्थः तत्र 'विज्ञानधने' त्यादीनां पूर्ववद्वाच्यं न च भूतसमुदायधर्मश्चैतन्यं, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य संशयात्, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org