________________
उपोद्घातः - [नि.६२९]
२२३
वृ-पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः ॥ नि. (६३०) ते पव्वइए सोउं अयलभाया आगच्छइ जिनसगासं ।
वच्चामि न वंदामी वंदित्ता पञ्जुवासामि ॥ वृ-पूर्ववन्नवरम्-अचलभ्राता आगच्छति जिनसकाशमिति । नि. (६३१) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ-सपातनिका पूर्ववत् । नि. (६३२) किं मन्नि पुण्णपावं अत्थि न अस्थित्ति संसओ तुझं ।
वेयपयाण य अत्यं न याणसी तेसिमो अत्थो । वृ-किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्व, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च, तेषामयमर्थ इत्यक्षरार्थः । तानि चामूनि वेदपदापि-'पुरुष एवेदं नि सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः ! त्वमित्थं मन्यसे-दर्शनविप्रपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनम्-पुण्यमेवैकमस्ति न पापं, तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यनारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति, यताऽत्यन्तपथ्याहारासेवनादुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहार-परिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यनरामर-भवाये ति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो मोक्ष इति, अन्येषां तूभय-मप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीादियुक्तत्वात्, नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाचापवर्ग इति, ___ अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात्, अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येने त्यादिना प्रतिपादिता च तत्सत्ता, अः संशयः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकमसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्परविरुद्धत्वाद्, एतदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्च एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तवात्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टस्वात्, स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात्, तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्तिक इति, न च तद्भावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात्, ततश्च स्वानुरूपकारणपूर्विका Jain Education International
For Private & Personal Use Only
www.jainelibrary.org