________________
उपोद्घातः - [नि.५८७]
. २०९ सव्वामयप्पसमणी कुप्पइ नऽन्नो य छम्मासे ।। 'वृ-शेषार्द्धस्य अर्द्ध-अर्धार्द्धं तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेषं यद्वलेरास्ते तद्भवति कस्य?, प्रकृतिषु भवः प्राकृतो-जनस्तस्य, सचेत्थंसामो भवति-ततः सिकूथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुप्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः ॥ अपरे त्वननरोक्तद्वारद्वयमप्येकद्वारीकृत्य, व्याचक्षतने, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात प्राकारान्तरात उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठतं इति । भगवत्पुत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने के गुणा इति?, उच्यतेनि. (५८८) खेयविणोओ सीसगुणदीवणा पचओ उभयओऽवि ।
सीसायरियकमोऽवि य गणहरकहणे गुणा होति ।। वृ- खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवनि, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते-यथा भगवताऽभ्यधायि तता गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम्-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः॥
आह-स गणधरः क्व निषण्णः कथयतीति ?, उच्यतेनि. (५८९) आओवणीयसीहासणे निविट्ठो व पायवीटंमि ।
जिट्ठो अनयरो वा गणहारी कहइ बीआए ॥ वृ- राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्टः अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः ।।
आह-स कथयन् कथं कथयतीति ?, उच्यतेनि. (५९०) संखाईएऽवि भवे साहइ जं वा परो उ पुच्छिज्जा ।
न य णं अनाइसेसी वियाणई एस छउमत्थो । । वृ-सङ्ख्यातीतानपि भवान्, असङ्ख्येयानित्यर्थः, किं ? -'साहइ'त्ति देशीवचनतः कथयति, एतदुक्तं भवति-असङ्ख्येयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किंबहुना ? -'न च' नैव, णमिति वाक्यालङ्कारे, 'अनाइसेसि' ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एष गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः । समवसरणं समत्तं
एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्| 2414
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org