________________
२०८
आवश्यक मूलसूत्रम्-१
वृ-भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो-महाधनपतिः, आदिशब्दात् नगरग्रामभोगिकादयः, कदा ? श्रुत्वा जिनागमनं, केभ्यो ? नियुक्तानियोजितेभ्यो वेति, गाथार्थः । तेषामित्थं प्रयच्छतां के गुणा इति ?, उच्यतेनि. (५८३) देवानुअत्ति भत्ती पूया थिरक- सत्तअनुकंपा।
साओदय दानगुणा पभावना चेव तित्थस्स ॥ वृ-देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा भूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ।। साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टै, अत्रान्तरे देवमाल्यं प्रविति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यतेनि. (५८४) राया व रायमुच्चो तस्सऽसईं पउरजनवओ वाऽवि ।
दुबलिखंडियबलिछडियतंदुलाणाढगं कलमा । वृ-'राजा वा' चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति?, आह-'दुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटितानां तन्दुलानाम् आढकं-चतुः प्रस्थपरिमाणं, 'कलमे' ति प्राकृतशैल्या कलमानां-तन्दुलानाम् इति गाथार्थः । किंविशिष्टानामिति ? आहनि. (५८५) भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं ।
कीरइ बली सुरावि य तत्थेव छुहंति गंधाई ।। वृ-विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनंपुनरानयनमिति, विभक्ताश्चते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् ? -अखण्डाःसम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः, तेषां, 'फलगसरिताणं' ति फलकवीनितानाम् एवं भूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादीनिति गाथार्थः ॥ माल्यानयनद्वारं, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूर्यनिनादेन दिग्मण्डमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आहनि. (५८६) बलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा ।
तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा । कृ-पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशेनं पूर्वद्वारेणस बलिप्रवेशनसमकालं तिष्ठति' उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यादेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति, इति । नि. (५८७) अद्धद्धं अहिवइणो अवसेसं हवइ पागयजनस्स ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org