SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. ५७८ ] वृ- साधारणा - अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपत्नाअद्वितीया, साधारणा (चा) ऽसावसपत्ना चेति समासः, तस्यां साधारणासपत्नायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्यावधारणार्थत्वात्, कस्यां ? - ग्राहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह- किढिवणिग्दास्युदाहरणादिति, तच्चेदम् एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आनीयत्ति भुक्खियतिसिया पुणो पट्ठविया, साय व कट्ठयभारं ओगाहंतीए पोरुसीए गहायागच्छति, कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एगं कट्टं पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं तित्थगरी धम्मं कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सद्दं सुणेंती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं परिस्समण च न विंदइ, सूरत्थमणे तित्थगरो धम्मं कहेउमुट्ठिओ, थेरी गया । एवं नि. (५७९) सव्वाउअंपि सोया खवेज जइ हु सययं जिनो कहए । सीउण्हखुप्पिवासापरिस्समभए अविगणेंतो ॥ वृ- भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवर्त्येव, यदि हु 'सततम्' अनवरतं जिनः कथयेत् । किंविशिष्टः सन्नित्याह - शीतोष्ण क्षुत्पिपासापरिश्रमभयानवगणयन्निति गाथार्थः । साम्प्रतं दानद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्त्ता ये खल्वानयन्ति तेभ्यो यठप्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवत्र्त्यादयस्तदुपप्रदिदर्शयिषुराह नि. (५८०) वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साइं । तावइयं चिय कोडी पीतीदानं तु चक्किस्स ॥ " वृ- 'वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्हार - सुवर्णस्य, द्वादश अर्द्धं च शतसहस्त्राणि, अर्द्धत्रयोदश सुवर्णलक्षा - इत्यर्थः तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याह - चक्रवर्त्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तेतरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः ॥ " नि. (५८१) एयं चेव पमाणं नवरं रययं तु केसवा दिंति । मंडलिआण सहस्सा पीईदानं सयसहस्सा ॥ २०७ Jain Education International वृ- एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तु' रूप्पं तु 'केशवाः' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्त्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिर्नियुक्तेभ्यो वेदितव्या, 'पीईदानं सतसहस्सं' ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्त्राण्यवगन्तव्यानीति गाथार्थः । किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याह नि. (५८२ ) भत्तिविहवानुरूपं अन्नेऽवि य देंति इब्भमाईया । सोऊण जिनागमनं निउत्तमणिओइएसुं वा ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy