________________
२१०
"
अहो स्विष्टं विग्रहवन्तः खलु देवा आगता इत्याहनि. (५९१)
आवश्यक मूलसूत्रम् -१
तं दिव्वदेवघोसं सोऊणं मानुसा तहिं तुट्ठा । अहो (हु) जन्निएण जट्टं देवा किर आगया इहई |
वृ- तं दिव्यदेवघोषं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो' ! विस्मये, यज्ञेन जयति लोकानिति याज्ञिकः तेनेष्टं, कुतः ? -एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह च
नि. (५९२) एक्कारसवि गणहरा सव्वे उन्नयविसालकुलवंसा । पावाऍ मज्झिमाए समोसढा जन्नवाडम्मि ||
वृ- एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह- 'सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशालाः पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः - अन्वया येषां ते तथाविधाः, पापायां मध्यमायां 'समवसृताः' एकीभूताः, क्क ? - यज्ञपाट इति गाथार्थः । आह-किमाद्याः, किंनामानो वा त एते गणधराः इति ? उच्यते -
नि. (५९३)
पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति ।
तइ य वाउभूई तओ वियत्ते सुहम्मे य ॥
वृ- प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीय, पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः ॥
नि. (५९४)
मंडियमोरियपुत्तो अकंपिए चेव अयलभाया य ।
यजेय पभासे गहरा होंति वीरस्स ॥
वृ- मण्डिकपुत्रः मौर्यपुत्रः पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च तार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः ॥
नि. (५९५)
कारण निक्खमणं वोच्छं एएसि आनुपुब्बीए ।
तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ।।
वृ- ‘यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां' गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थं च सुधर्मात् सञ्जातं, 'निपत्याः' शिष्यगणरहिताः गणधराः 'शेषाः ' इन्द्रभूत्यादयः इति गाथार्थः ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह
नि. (५९६)
जीवे कम्मे जीव भूय तारिसय बंधमोक्खे य ।
देवा नेरइए या पुणे परलोय नेव्वाय ।।
वृ- एकस्य जीवे संशयः- किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानरणीयादिलक्षणं कर्म किमस्ति नास्ति ? इति, अपरस्य 'तज्जीवे' त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूते' त्ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' त्ति किं यो याद्दश इह भवे स ताध्श एव अन्यस्मिन्नपि ? उत नेति, ‘बन्धमोक्खे य’त्ति अपरस्य तु किं बन्धमोक्षौ स्तः ? उत न इति, आह- कर्मसंशयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org