________________
२०४
आवश्यक मूलसूत्रम्-१
चतुर्णामन्यतप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चउ अन्नतरं' ति मनुष्यश्चतुर्णामन्यतमप्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे वा-सम्यक्त्वश्रुतसामायिके प्रतिपद्रद्यन्ते इति । यदि नास्ति मनुष्यतिश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्व-प्रतिपत्तिर्भवतीति गाथार्थः ॥ स चेत्यं धर्ममाचष्टेनि. (५६६) तित्थपणामं काउं कहेइ साहारणेण सद्देणं ।
सव्वेसिं सण्णीणं जोयणनीहारिणा भगवं ॥ वृ- ‘नमस्तीर्थाये' त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणे-नेत्याह-सर्वेषास्' अमरनरतिरश्चां सज्ञिनां, किंविशिष्टेन ?-'योजननिहारिणा' योजनव्यापिना भगवानिति, एतदुक्तं भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः।
आह-कृतकृत्यो भगवान् किमिति तीर्थंप्रणामं करोतीति ?, उच्यतेनि. (५६७) तप्पुब्विया अरहया पूइयपूता य विनयकम्मं च ।
कयकिच्चोऽवि जह कहं कहए नमए तहा तित्थं ॥ कृतीर्थं श्रुतज्ञानं तत्पूर्विका अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा 'विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च-'तं च कथं वेदिज्जती' त्यादि गाथार्थः ।। आह-क्क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्त मिति ?, उच्यतेनि. (५६८) जत्थ अपुब्बोसरणं न दिट्ठपुव्वं व जेन समणेणं ।
बारसहिं जोयणेहिं सो एइ अनागमे लहुया ॥ वृ-यत्रापूर्वं समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न हष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति 'लहुग' त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः ॥ द्वारम् ॥अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥ रूपपृच्छाद्वारावयवार्थ विवृण्वन् आहनि. (५६९) सव्वसुरा जइ रूवं अंगुट्ठापमाणयं विउव्वेजा ।
जिनपायंगुटुं पइ न सोहए तं जहिंगालो ॥ वृ-कीग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्माणपणशक्त्या अङ्गुष्ठप्रमाणकं विकुवीरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थः।
साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽहनि. (५७०) गणहर आहार अनुत्तरा (य) जाव वण चक्कि वासु बला ।
मंडलिया ता हीना छट्ठाणगया भवे सेसा ॥ वृ-तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org