________________
उपोद्घातः - [ नि. ५७० ]
२०५
शादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारकदेहरूपेपेभ्योऽनन्तगुणहीनाः 'अनुत्तराश्चे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तर - देहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणनतानतसहस्त्रारमहाशुऋलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारे शान सौर्ध्याभवनवासिज्योतिष्कव्यन्तरचऋवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह - 'जाव वण चक्कि वासु बला । मंडलिया ता हीनत्ति' यावत् व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुहीनाः, 'छट्ठाणगया भवे सेस' त्ति शेषा राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्त भागहीना वा असङ्ख्येयभागहीना वा सङ्घयेयभागहीना वा सङ्घयेयगुणहीना वा असङ्घयेयगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः ॥ उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह
नि. (५७१) संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइनुत्तराई हवंति नामोदए तस्स ॥
वृ- ‘संहननं' वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं 'संस्थानं' समचतुरस्त्रं 'वर्णो' देहच्छाया 'गतिः' गमनं 'सत्त्वं' वीर्यान्तररायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा बाह्योऽभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, 'उच्छ्वासः' प्रतीत एव, संहननं च रूपं च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्वासश्चेति समासः । एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिर गाक्षीराभं मासं चेत्यादि, कुत इत्याह- 'नामोदयादि 'ति नामाभिधानं कर्मानेकभेदभिन्नं नदुदयादिति गाथार्थः । आह - अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यते
नि. (५७२)
पगडीणं अन्नासुवि पसत्थ उदया अनुत्तरा होंति । खय उवसमेऽविय तहा खयम्मि अविगप्पमाहंसु ||
वृ- 'पगडीणं अन्नासुवि' त्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह- 'अनुत्तरा' अनन्यसध्शा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह' त्ति, क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानदिगुणसमुदयम् 'अविगप्पमाहंसु त्ति अविकल्पंव्यावर्णनादिवि-कल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः । आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेनि. (५७३ ) अस्सायमाइयाओ जावि य असुहा हवंति पगडीओ । निंबरसलवोव्व पएण होंति ता असुहया तस्स ॥
वृ- असाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव 'फ्यसि' क्षीरे लवो - बिन्दु:, न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः || उक्तमानुषङ्गिकं, प्रकृतद्वारमधिकृत्याह - उत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org