SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.५६०] . [भा.११९] समहिंदा कप्पसुरा राया नरनारिओ उदीणेणं । पविसित्ता पुबुत्तरदिसीऍ चिटुंति पंजलिआ । कृ-गमनिका-समहेन्द्राः कलपसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः ॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थोपसङ्ग्रहाय इदमाहनि. (५६१) एक्वेक्कीय दिसाए दिगं दिगं होइ सन्निविटुं तु । आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ॥ वृ- पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिगद्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः ।। तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आहनि. (५६२) एतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परोप्परमच्छरो न भयं ॥ वृ- येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्टिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात्, इति गाथार्थः । एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः , यत आहनि. (५६३) बिइयंमि होंति तिरिया तइए पागारमंतरे जाणा। पागारजढे तिरियाऽवि होति पत्तेय मिस्सा वा ।। वृ-द्वितीये प्राकारान्तरे भवन्ति तिर्यश्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येक मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाथार्थः ।। द्वितीयाद्वारावयवार्थमभिधित्सुः सम्बन्धगाथामाहनि. (५६४) सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । , इहरा अमूढलकखो न कहेइ भविस्सइ न तं च ॥ वृ- 'सव्वं च देसविरति ति सर्वविरतिं च देशविरतिं च, विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति वा भवति कथना तुप्रवर्तते कथनमित्यर्थः, 'इहर' ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, किम् ? न कथयति । आह-समवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनात् इत्याह-भविष्यति न तच्च, यद् भगवति कथयत्यन्यतमोऽप्यन्यतमसत्सामायिकं न प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः । 'केवइय' त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहनि. (५६५) मनुए चउमन्नयरं तिरिए तिन्नि व दुवे व पडिवज्जे । ___ जइ नत्थि नियमसो च्चिय सुरेसु सम्मत्तपडिवत्ती । वृ-अथवा-कथं भविष्यति न तच्चेत्याह-यत-'मनुए' गाहा । व्याख्या-मनुष्ये प्रतिपत्तरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy