SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ आवश्यक मूलसूत्रम् - १ नि. (५५९) केवलिनो तिउण जिनं तित्थपणामं च मग्गओ तस्स । मनमादीवि नमंता वयंति सट्टाणसट्ठाणं ॥ वृ- केवलिनः 'त्रिगुणं' त्रिः प्रदक्षिणीकृत्य 'जिनं' तीर्थकरं तीर्थप्रणामं च कृत्वा मार्गतः 'तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मनमाईवि नमंता वयंति सट्टाणसट्टा ि मनः पर्यायज्ञानिनोऽपि भगवन्तमभिवन्द्य तीर्थं केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति । आदिशब्दान्निरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति तथा भवनपति ज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनः पर्याय - ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः ॥ नि. (५६०) भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य । मणिया य मनुया पयाहिणं जं च निस्साए ।। वृ- भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तर-पश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः । किम् ? 'पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति । अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन । 'जं च निस्साए ' त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ॥ साम्प्रतमभिहितमेवार्थ संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकारः [भा. ११६] संजयवेमणित्थी संजय (इ) पुव्वेण पविसिउं वीरं । काउं पयाहिणं पुव्वक्खिणे ठंति दिसिभागे ॥ वृ-गमनिका - संयता वैमानिकस्त्रियः संयत्यः पर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः ॥ [भा. ११७] जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसंति । चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिनगं काउं ॥ वृ- गमनिका - ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुण जिनं कृत्वा इति गाथार्थः ॥ [भा. ११८] अवरेण भवनवासी वंतरजोइससुरा य अइगंतुं । अवरुत्तरदिसिभागे ठंति जिनं तो नमंसित्ता ॥ वृ- गमनिका - अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy