________________
१९९
उपोद्घातः - [नि.५४३] पृच्छा कार्योत्तरं च वक्तव्यं, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, 'वागरणं' ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छावागरणं' ति एकं वा द्वारं, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, ‘सोयपरिणामे'त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा-सर्वश्रोतृणां भागवती वाक् स्वभाषया परिणमत इति । 'दानंच'त्ति वृत्तिदानं प्रीतिदानंच कियत् प्रयच्छन्ति चक्रवर्त्यायः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । “देवमल्ले त्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं-बल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मल्लानयणे'त्ति माल्यानयने यो विधिरसौ वक्तव्यः, 'उवरि तित्थं' ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदायाथः । अवयवार्थ तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि ६श्यते, इह पुनर्युज्यते, द्वारनियमतोऽसंमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति। आह-इहं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो भवत्युत नेथ्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाहनि. (५४४) जत्थ अपुव्वोसरणं जत्थ व देवो महिड्डिओ एइ ।
वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥ वृ- यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यथः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः ‘एति' आगच्छति, तत्र किमित्याह-वातं रेण्वाद्यपनोदाय उदकवर्द्दलं भाविरेणुसंतापोपशान्तये तथा पुष्पवर्द्दलं क्षितिविभूषायै, वर्द्दलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियेगमर्हन्तीत्याभियोग्याः-देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथाथः ॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः,
साम्प्रतं विशेषण प्रतिपादनयन्नाहनि. (५४५) मणिकनगरयणचित्तं भूमीभागं समंतओ सुरभिं ।
आजोअनंतरेणं करेंति देवा विचित्तं तु ॥ वृ- मणयः-चन्द्रकान्तादयः कनकं-देवकाञ्चनं रत्नानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि रत्नानि, तैश्चित्रं, भूभागं ‘समन्ततः' सर्वासु दिक्षु 'सुरभि' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं तु, किंपरिमाणमित्याह-आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् ? -मणिकनकरत्नविचित्रमिति गाथार्थः ॥ नि. (५४६) वेंटट्ठाई सुरभि जलथलयं दिव्वकुसुमनीहारिं।
पइरंति समंतेणं दसद्धवण्णं कुसुमवास ॥ वृ- वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनि रि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्ष, भावार्थः सुगमो, नवरं निर्हारि-प्रबलो गन्धप्रसर इति गाथार्थः ।। नि. (५४७) मणिकनगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति ।
सच्छत्तसालंभजियमयरद्धयचिंधसंठाणे ॥ वृ- मणिकनकरत्नचित्राणि 'चउद्दिसिति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org