________________
२००
आवश्यक मूलसूत्रम्-१
शिष्टान्यत आह-छत्रं-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः ‘मकर' त्ति मकरमुखोपलक्षणं ध्वजाःप्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थान-तद्रचनाविशेष एव, सच्छोभनानिछत्रसालभजिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तर-देवाः कुर्वन्तीति । नि. (५४८) तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा ।
मणिकंचनकविसीसगविभूसिरूते विउव्वेति ॥ वृ-त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ॥ सा चेयम्नि. (५४९) अभंतर मज्झ बहिं विमानजोइभवणाहिवकया उ ।
पागारा तिन्नि भवे रयणे कनगे य रयए य॥ वृ-अभ्यन्तरे मध्ये च बहिविमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कनगे य रयए यत्ति रत्नेषु भवो रालः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः॥ नि. (५५०) मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा ।
सव्वरयणामय च्चिय पडागधयतोरणविचित्ता ॥ वृ-मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरल चित्रत्वम् एतेषामविरुद्धमिति गाथार्थः ॥ नि. (५५१) तत्तो य संमतेणं कालागरुकुंदुरुक्कमीसेणं ।
गंधेन मनहरेणं धूवघडीओ विउव्वेति ॥ कृततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम् ?-धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः ॥ नि. (५५२) उक्कुट्ठिसीहणायं कलयलसद्देन सव्वओ सव्वं ।
तित्थगरपायमूले करेंति देवा निवयमाणा ॥ वृ-तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् ?-कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं ‘सर्वम्' अशेषमिति। नि. (५५३) चइदुमपेढछंदय आसनछत्तं च चामराओ य ।
जं चऽन्नं करणिज्जं करेंति तं वाणमंतरिया ॥ वृ.चैत्यद्रुमम्-अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दकं तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चय, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यद्वातोदकादि 'करणीयं' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरा देवा इति गाथार्थः । आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org