________________
आवश्यक मूलसूत्रम् - १
१९८
नष्टे च छाद्मस्थिके ज्ञाने, राव्यां संप्राप्तो महसेनवनमुद्यानं, किमिति ? भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन्, तत्र च प्रवज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृर्त्तवान्, ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति । अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टितं । बीपि समोसरणं पावाए मझिमाए उ ॥
नि. (५४०)
वृ- स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः -पूजितः प्राप्तः, किमिइ त्याह-धर्म्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्त्तित्वं तत्प्रभुत्वमित्यर्थः । पुनर्द्वितीयं समवसरणम्, अपिशब्दः पुनः शब्दार्थे द्रष्टव्यः, पापायां मध्यमायां प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ॥
नि. (५४१) तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि । पउरा जनजाणवया समागया जन्नवाडंमि ॥
वृ- 'तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य 'दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः जनाः' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः । अत्रान्तरेएते य विवित्तो उत्तरपासंमि जन्नवाडस्स । तो देवदानविंदा करेंति महिमं जिणिंदस्स ॥
नि. (५४२)
वृ- एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिंदस्स' कृतवन्त इति गाथार्थः ॥ अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह -
[भा. ११५]
भवणवइवाणमंतरजोइसवासी विमाणवासी य ।
सव्विड्डिए सपरिसा कासी नाणुप्पयामहिमं ॥
वृ- भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वद्धर्ध्या हेतुभूतया सपरिषदः, कृतवन्तः ज्ञानोत्पत्ति-महिमाम् इति गाथार्थः ॥
साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्त्रेतां द्वारगाथामाह
नि. (५४३) समोसरणे केवइया रूव पुच्छ वागरेण सोयपरिणामे । दानं च देवमल्ले मल्लाणयणे उवरि तित्थं ॥
वृ- 'समोसरणे' त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'केवइय' त्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ? कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवत्ः प्रयोजनमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org