________________
१६८
आवश्यक मूलसूत्रम् - १
ग्रन्थकारवचनत्वात् वर्त्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ [भा. १०७] जिनवरमणुन्नवित्ता अंजनघणरुयगाविमलसंकासा । केसा खणेण नीआ खीरसरिनसनामयं उदहिं ॥
वृ-गमनिका - शक्रेण - जिनवरमनुज्ञाप्य अञ्जनं प्रसिद्धं घनो मेघः रुक् - दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक् अञ्जनघनरुग्वत् विमलः संकाशः-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिवं संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव, क एते ? केशाः किम् ? क्षणेन नीताः, कम् ? 'क्षीरसध्शनामानमुदघि' क्षीरोदधिमिति गाथार्थः । अत्रान्तरे च चारित्रं प्रतिप्रत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शक्रादेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह
-
[भा. १०८] दिव्वो मनूसघोसो तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवज्जइ चरितं ॥
वृ- गमनिका - 'दिव्यो' देवसमुत्थो मनुष्यघोषश्च चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शऋवचनेन 'क्षिप्रमेव' शीघ्रमेव 'निलुक्कोत्ति' देशीवचनतो विरतः 'यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः । स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह[भा. १०९ ] काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिहे ।
सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ||
वृ- कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह - सर्वं 'मे' मम 'अकरणीयं' न कर्त्तव्यं, किं तदित्याह - पापमिति, किमित्याह - चारित्रमारूढ इतिकृत्वा, सच भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः ॥ चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम् - एगेन देवदूसेण पव्वएइ, एतं जाहे अंसे करेइ एत्यंतरा पिउवयंसो धिजाइओ उवट्ठिओ, सो अ दानकाले कहिंपि पवसिओ आसी, आगओ भज्जाए अंबडिओ, सामिणा एवं परिचत्तं तुमं च पुन वणाइ हिंडसि, जाहि जइ इत्थंतरेऽवि लभिज्जासि । सो भणइ - सामि ! भेहिं मम न किंचि दिन्नं, इदाणिंपि मे देहि । ताहे सामिणा तस्स दूसस्स अद्धं दिन्नं, अनं मे नत्थि परिचत्तंति । तं तेन तुण्णागस्स उवनीअं जहा एअस्स दसिआओ बंधाहि । कत्तोत्ति पुच्छिए भणति - सामिणा दिन्नं, तुण्णाओ भणति तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुण्णामि ताहे लक्खामोल्लं भविस्सइत्ति तो तुज्झवि अद्धं मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि । अलं प्रसङ्गेन । तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनः पर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमो, यत आह
[भा. ११०] तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडवणंमि चरिते चउनाणी जाव छउमत्था ॥
वृ- 'त्रिभिर्ज्ञानैः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः । किं सर्वमेव कालम् ?, नेत्याह- यावद्गृहवासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतुर्ज्ञानिनो, भवन्तीत्यनुवर्त्तते । कियन्ते कालमित्याह - यावत् छद्मस्थाः तावदपि चतुज्ञानिन इति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org