________________
उपोद्घातः - [ नि. ४६० ]
१६७
9
'स्वच्छन्दविकुर्विताभरणधारिणः क एते ? देवेन्द्रा दानवेन्द्राः किम् ? -वहन्ति शिविकां जिनेन्द्रस्येति गाथार्थः ॥ अत्रान्तरे[ भा. १००]
कुसुमानि पंचवण्णाणि मुयंता दुंदुही य ताडंता । देवगणा य पट्टा समंतओ उच्छयं गयणं ॥
वृ- भगवति शिबिकारूडे गच्छति सति नभः स्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भस्ताडयन्तश्च, के ? - 'देवगणाः ' देवसंघाताः चशब्दस्य प्राक्संबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ? -भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह - 'समन्ततः' सर्वासु दिक्षु सर्वं 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ [भा. १०१] वनसंडोव्व कुसुमिओ पउमसरो वा जहा सरयंकाले । सोहइ कुसुमभरेणं इय गगनयलं सुरगणेहिं ॥
वृ- गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेणहेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इतिं गाथार्थः ॥
[भा. १०२ ] सिद्धत्थवणं च जहा असनवनं सणवणं असोगवणनं । चूअवनंव कुसुमिअं इअगयणयलं सुरगणेहिं ||
वृ- सिद्धार्थकवनमिव यथा असनवनं, अशनाः- बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणै रराजेति गाथार्थः ॥
[भा. १०३ ] अयसिवनं व कुसुमिअं कणिआरवनं व चंपयवनं व । तिलयवनं व कुसुमिअं इअ गयनतलं सुरगणेहिं ||
वृ- अतसीवनमिव कुसुमितं, अतसी - मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः ॥
[भा. १०४]
चरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥
वृ- वरपटहभेरिल्लरिदुन्दुभिशङ्खसहितैस्तयैः करणभूतैः किम् ? -धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः ॥
[भा. १०५ ] एवं सदेवमणुआसुराऍ परिसाऍ परिवुडो भयवं । अभिव्वंतो गिराहिं संपत्तो नायसंडवणं ॥
वृ- गमनिका–‘एवं’ उक्तेन विधिना, सह देवमनुष्यासुरर्वर्त्तते इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥
[भा. १०६ ]
1
उज्जानं संपत्तो ओरुभइ उत्तमाउ सीआओ ।
सयमेव कुणइ लोअं सक्को से पडिच्छए केसे ॥
वृ- गमनिका - उद्यानं संप्राप्तः, 'ओरुहइत्ति' अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचं, 'शक्रो' देवराजा 'से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org