________________
१६४
आवश्यक मूलसूत्रम्-१
तेयसिरिंव सुरूवं जनेइ पिअदंसणं धूअं । वृ-गमनिका- 'पञ्चविधान्' पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्रीः तेजःश्रीः तां तेजः श्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां 'धुता' दुहितरं, 'जणिंसु वा पाठः, जनितवानिति गाथार्थः ॥ अत्रान्तरे च भगवत्मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा क्षिपस्व, कियन्तमपि कालं तिष्ठं, भगवानाह-कियन्तम् ?, स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो न वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन्तस्थौ, अत्रान्तर एव महादानं दत्तवान्, लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः प्रव्रजित इति ।। अमुमेवार्थं संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत् - नि. (४५९) हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो ।
वज्जरिसहसंघयणो भविअजनविबोहओ वीरो ॥ नि. (४६०) सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे ।
अम्मापिइहिं भयवं देवत्तगएहिं पव्वइओ ॥ वृ-गमनिका-'हस्तोत्तरयोगेन' उत्तराफाल्गुनीयोगेनत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो ‘जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभ-संहननो भव्यजनविबोधको वीरः, किम् ?-मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रव्रजित इति योगः । द्वितीयगाथागमनिका - ‘सः' भगवान् देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरं, गृहवासे शेषं व्याख्यातमेव ॥ साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थं व्याख्यानयति 'संवच्छरेण०' माथेत्यादिना[भा.८१-८५] संवच्छरेणं०॥ एगा हिरण्ण०॥ सिंघाडय० ।
वरवरिआ०॥तिण्णेव य०॥ वृ-इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न विव्रियते ।। संबोधनद्वारावयवार्थमाह[भा.८६-८७] सारस्सयमाइच्चा० ॥ एए देवनिकाया०। [भा.८८] एवं अभिथुव्वंतो बुद्धो बुद्धारविंदसरिसमुहो।
लोगंतिगदेवेहिं कुंडग्गामे महावीरो ॥ वृ- इदमपि गाथात्रयं व्याख्यातत्वात् न प्रत्यन्ते । आह-ऋषभदेवाधिकारे ‘संबोहणपरिच्चाएत्ति' इत्यादिद्वारगाथायां संबोधनोत्तरकालं परित्यागद्वारमुक्तं, तता मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु ‘दाने संबोधनिक्खमणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति । ततश्च इह दानद्वारस्य संबोधनद्वारात् पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृतग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यात्वात् संबोधनद्वारात् प्रागुपन्यासो न्यायप्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथनियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपन्यासः, इत्येतावन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org