SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.४६०] १६५ संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन । साम्प्रतं निष्क्रमणद्वारावयवार्थं व्याचिख्यासुराह[भा.८९] मनपरिणामो अ कओ अभिनिक्खणंमि जिनवरिंदेण । देवेहि य देवीहिं य समंतओ उच्छयं गयणं ॥ वृ-गमनिका-मनः परिणामश्च कृतः ‘अभिनिष्क्रमणे' इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह-देवैर्देवीभिश्च ‘समन्ततः' सर्वासु दिक्षु 'उच्छय गयणं' ति व्याप्तं गगनमिति गाथार्थः ।। [भा.९०] भवणवइवाणमंतर जोइसवासी विमानवासी अ । . घरणियले गयणयले विजुजे ओकओ खिप्पं ।। वृ-यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, ज्योतिः-शब्देन इह तदालया एवोच्यन्ते, विमानवासिनश्च । अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विधुदुद्योतः कृतः क्षिप्र' शीघ्रमिति गाथार्थः॥ [भा.९१] जाव य कुंडग्गामो जाव य देवाण भवनआवासा । देवेहिंय देवीहिं य अविरहिअं संचरंतेहिं । वृ-गमनिका-यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलं गगनतलं च देवैः देवीभिश्च 'अविरहितं' व्याप्तं संचरद्भिरिति गाथार्थः ।। अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगतम्, अमुमेवार्थं प्रतिपादयति -'चंदप्पभा येत्यादिना'[भा.९२] चन्दप्पभा य सीआ उवनीआ जम्मजरणमुक्कस्स । आसत्तमल्लदामा जलयथलयदिव्वकुसुमेहिं ॥ वृ-चन्द्रप्रभा शिबिकेत्यभिधानं 'उपनीता' आनीता, कस्मै-जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै-वर्धमानायेत्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या । किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाह[भा.९३] पंचासइ आयामा धनूनि विच्छिन्न पणवीसं तु । छत्तीसइमुबिद्धा सीया चंदप्पभा भणिआ ॥ वृ-पञ्चाशत् धनूंषि आयामो-दैy यस्याः सा पञ्चाशदायामा धनूंषि, विस्तीणां पञ्चविंशत्येव, षट्त्रिंशद्धनूंषि 'उव्विद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः ॥ [भा.९४] सीआइ मज्झयारे दिव्वं मणिकनगरयणचिंचइअं। सीहासनं महरिहं सपायवीढं जिनवरस्स ।। कृ-शिबिकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्य' सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महाहँ, तत्र मणयः-चन्द्रकान्ताद्याः कनकं-देवकाश्चनं रत्नानि-मरकतेन्द्रनीलादीनि 'चिंचइअं' ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमर्हतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy