________________
१६३
उपोद्घातः - [नि.४५८] इत्यक्षरार्थः ॥ अन्यदा भगवनतमधिकाष्टवर्ष कलाग्रहणयोग्यं विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ । आह च[भा.७६] अह तं अम्मापिअरो जाणित्ता अहिअअट्ठवासं तु।।
कयकोउअलंकारं लेहायरिअस्स उवनिति ॥ कृगमनिका-'अथ' अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षं तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति समासः, तं लेखाचार्याय उपाध्यायायेत्यर्थः । 'उवनेति' त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा ‘उवनेंसु तदा उपनीतवन्त इति गाथार्थः ।। अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायदं प्रयोजनं अहो खल्वपत्यनेहविलसितं भुवनगुरुमातापित्रोः येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पितयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् । अमुमेवार्थं प्रतिपादयति भाष्यकारः ‘सक्को अ०' इत्यादिनेति । [भा.७७] सक्को अ तस्समक्खं भगवंतं आसने निवेसित्ता ।
सद्दस्स लक्खणं पुच्छे वागरणं अवयवा इंदं । वृ-गमनिका-शक्रश्च तत्समक्षं लेखाचार्यसमक्षं 'भगवंत' तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं वा 'पुच्छिसु सद्दलक्खणं, वागरणं अवयवा इंदं' पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणं - शब्दशास्त्र, तदवयवाः केचन उपाध्यायनेन गृहीताः, ततश्च एन्द्रं व्याकरणं संजातमिति गाथार्थः। विवाहद्वारावयवार्थमभिधित्सयाऽऽह[भा.७८] उम्मुक्कबालभावो कमेण अह जोव्वणं अनुप्पत्तो ।
भोगसमत्थं नाउं अम्मापिअरो उ वीरस्स ।। वृ-गमनिका-एवं उन्मुक्तो बालभावो येनेति समासः, ‘क्रमेण' उक्तप्रकारेण 'अथ' अनन्तरं 'यौवनं' वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगाः-शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तं, कौ ?-मातापितरौ तु वीरस्येति गाथार्थः । किम् ? - [भा.७९] तिहिरक्खिंमि पसत्थे महंतसामंतकुलपसूआए।
कारंति पाणिगहणं जसोअवररायकण्णाए । वृ-तिथिश्च ऋक्षं च तिथिऋक्षं, ऋक्षं -नक्षत्रं, तस्मिन् तिथिऋक्षे, 'प्रशस्ते' शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाणेग्रहणं पाणिग्रहणं, कया?-यशोदा चासौ वरराजकन्या चेति विग्रहः तया, तत्र ‘महासामन्तकुलप्रसूतया' इत्यनेनान्वयमहत्त्वमाह, 'वरराजकन्यया' इत्यनेन तु तत्कालराज्यसंपद्युक्तामाहेति गाथार्थः । अपत्यद्वारावयवार्थं व्यचिख्यासुराह__ [भा.८०] पंचविहे मानुस्से भोगे भुंजितु सह जसोआए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org