________________
उपोद्घातः - [ न. ४१८]
नमिनेमिसु जयनामो अरिट्ठमासंदरे बंभो ॥
वृ- इह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकाले ऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविष्यति बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुः समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनायापायः
बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहिं । उड्डययाहिं काउं पंच घराई तओ पढमे ॥ पन्नरस जिन निरंतर सुण्णदुगं ति जिन सुण्णतियगं च । दो जिन सुण्ण जिनिंदो सुण्ण जिणो सुण्ण दोन्नि जिना ।। बितियपंतिठवणा
दो चक्कि सुण्ण तेरस पण चक्किसुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दु चक्की सुण्णं चक्की दु सुण्णं च ॥
ततियपंतिठवणा
१४७
दस सुण्ण पंच केसव पण सुण्ण केसि सुण्ण केसी य । दो सुण सवोऽवि यण्णदुगं केसव ति सुण्ण ॥
प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति ।
उक्तसम्बन्धगाथात्रयगमनिका - ऋषभे तीर्थकरे भरतश्चक्रवर्त्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्त्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत् - 'मघवा सणकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतच्चक्रवर्त्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्त्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः ॥ द्वितीय-गाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तश्चैव चक्रवर्त्तिनश्च, तथा अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यइति गाथार्थः । तृतीयगाथागमनिका - मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वो ?, पद्मनाभहरिषेणौ 'नमिनेमिसुजयनामो अरिट्ठपासंतरे बंभो' त्ति नमिश्च नेमी च नमिनेमिनी, अन्तरग्रहण-मभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, पार्श्वेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥
इदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यतेनि. (४१९) पंच रहते वदंति केसवा पंच आनुपुव्वीए । सिस तिविट्ठाई धम्म पुरिससीहपेरंता ॥
वृ- गमनिका -पञ्ज अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः ? किमेकः द्वौ त्रयो वा ?, नेत्याह'पंच' पञ्चेति पञ्चैव, किं यथाकथञ्चित् ? नेत्याह- 'आनुपूर्व्या' परिपाठ्या 'सिजूंस तिविट्ठाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org