SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ आवश्यक मूलसूत्रम्-१ धम्म पुरिससीहपेरंता' श्रेयांसादीन् त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति, वन्दन्त इति शास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरिहंते वंदिसु केसवा' इत्यादि गाथार्थः॥ नि. (४२०) अरमल्लिअंतरे दुन्मि केसवा पुरिसपुंडरिअदत्ता । मुनिसुव्वयनमिअंतरि नारायण कण्हु नेमिंमि ॥ वृ- अरश्च मल्लिच अरमल्ली तयोरन्तम्-अपान्तरालं तस्मिन्, द्वौ केशवौ भविष्यतः, कौ द्वौ इत्याह-पुरुषपुण्डरीकदत्तौ 'मुनिसुव्वणमिअंतरे णारायणो' त्ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति अभवद्वा। तथा 'कण्हो य नेमिमि' त्ति कृष्णाभिधानश्चरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः । एवं तावत् चक्रवर्तिनो वासुदेवाश्च यो यज्जिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाहनि. (४२१) चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी 'चक्की अ॥ वृ-प्रथममुक्तलक्षणकाले चक्रवत्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवत्तिनां, पुनः पुरुषपुण्डरीकः केशवः, ततः सुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवर्देव, पुनर्नारायणाभिधानः, केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवत्तिनौ, पुनः कृष्णनामा केशवः, पुनर्बह्मदत्ताभिधानश्चऋवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः ॥ उक्तमानुषङ्गिकं, प्रकृतं प्रस्तुमः-तत्र 'तित्थगरो को इहं भरहे !' तद्व्याचिख्यासयाऽऽह-मूलभाष्यकार:[भा.४४] अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए। अन्नोऽवि कोऽवि होही भरहे वाहमि तित्थयरो?॥ वृ-गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः ।। नि. (४२२) तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता। सज्झायझाणजुत्तो एगंते झायइ महप्पा ॥ वृ. 'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः ॥ नि. (४२३) तं दाएइ जिणिंदो एव नरिंदेन पुच्छिओ संतो। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥ वृ- गमनिका-भरतपृष्टो भगवान् ‘त' मरीचिं दर्शयता जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यति इति गाथार्थः ।। नि. (४२४) आइगरु दसाराणं तिविठू नामेण पोअणाहिवई । पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy