________________
१४०
आवश्यक मूलसूत्रम् - १
आर्यान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छ' त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-याग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । ‘निव्वाणं' ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः । अवयवार्थ उच्यते- आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तुआहनि. (३६७) पुनरवि अ समोसरणे पुच्छीअ जिनं तु चक्किणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो कोइहं भरहे ॥
वृ- गमनिका - पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्त्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीनं पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिने य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः । तथा चाह नि. (३६८) जिनचक्किदसाराणं वण्ण १ पमाणाई २ नाम ३ गोत्ताई ४ ।
आऊ ५ पुर ६ माइ ७ पियरो ८ परियाय ९ गई च १० साहीअ ॥ वृ- गमनिका - जिनचक्रिदशाराणां' जिनचक्रवर्त्तिवासुदेवानमित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयुः - पुराणि मातापितारै यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः । अवयवार्थे तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य
तावदाह भाष्यकारः
[भा. ३८]
जारिसया लोअगुरू भरहे वासंमि केवली तुभे । एरिया कइ अने ताया ! होहिंति तित्थरा ? ॥
वृ- याध्शा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईध्शाः कियन्तोऽन्येऽत्रैव तात ! भवियन्ति तीर्थकराः ? इति गाथार्थः ॥
नि. (३६९) अह भणइ जिनवरिंदो भरहे वासंभि जारिसो अहयं । एरिया तेवीसं अन्ने होहिंति तित्थयरा ॥
नि. (३७०) होही अजिओ संभव अभिनंदन सुमइ सुप्पभ सुपासो । ससि पुप्फदंत सीअल सिजंसो वासुपुजे अ ।।
नि. (३७१) विमलमनंतइ धम्मो संती कुंथू अरो अ मल्ली अ । मुनिसुव्वय नमि नेमी पासो तह वद्धमाणो अ ॥
नि. (३७२ ) अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिया कइ अन्ने ताया होहिंति रायाणो ॥
वृ- गमनिका - अथ भणति नरवरेन्द्रो भरतः, भारते वर्षे याध्शस्त्वहं ताध्शाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥
नि. (३७३)
अह भणइ जिनवरिंदो जारिसओ तं नरिंदसद्दूलो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org