SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १४१ उपोद्घातः - [नि.३७३] एरिसया एक्कारस अन्ने होहिंति रायाणो ॥ वृ-गमनिका-अथ भणति जिनवरेन्द्रो-याध्शस्त्वं नरेन्द्रशार्दूलः, शार्दूल:-सिंहपर्यायः, ईशा एकादश अन्ये भविष्यन्ति राजानः ॥ ते चैतेनि. (३७४) होही सगरो मघवं सणंकुमारो य रायसङ्कलो । संती कुंथू अ अरो होइ सुभूमो य कोरव्यो । नि. (३७५) नवमो अ महापउमो हरिसेनो चेव रायसठूलो । जयनामोओ नरवई बारसमो बंभदत्तो अ॥ वृ-गाथाद्वयं निगदसिद्धमेव । यदुक्तम् 'अपृष्टश्च दशारान् कथितवान' तदभिधित्सुराह भाष्यकार:[भा.३९] होहिंति वासुदेवा नव अन्ने नीलपीअकोसिज्जा । हलमुसलचक्कजोही सतालगरुडझया दो दो । वृ- भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति ‘सतालगरुडझया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-वस्त्राणि येषां ते तथाविधाः, यथासंख्यमेव हलमुशलचक्रयोधिनः-हलमुशलयोधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः। एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतिः, बलदेववासुदेवाविति गाथार्थः ॥ वासुदेवाभिधानप्रतिपादनायाह[भा.४०] तिविठू अ१दिविठू २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५ । तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९॥ वृ-निगदसिद्धा ।। अधुना बलदेवानामभिधानप्रतिपादनायाह[भा.४१] अयले १ विजए २ भद्दे ३, सुप्पभे ४ अ सुदंसणे ५। आनंदे ६ नंदने ७ पउमे ८, रामे ९ आवि अपच्छिमे ।। वृ-निगदसिद्धा । वासुदेवशत्रुप्रतिपादनायाह[भा.४२] आसग्गीवे १ तारय २ मेरय ३ महुकेढवे ४ निसुंभे ५ अ । बलि ६ पहराए ७ तह रावणे ८ अ नवमे जरासिंधू ।। निगदसिद्धा एव ॥ [भा.४३] एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे अ चक्कजोही सव्वे अ हया सचक्केहिं ॥ वृ- गमनिका-एते खलु प्रतिशत्रवः-एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानां, सर्वे चक्रयोधिनः, सर्वे च हताः स्वचक्रैरिति-यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति इति गाथार्थः। एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थमुक्रमेण जिनादीनां नामद्वारमुक्तं, पारभविकं चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तरभयानोक्तमिति ।। साम्प्रतं तीर्थकरवर्णप्रतिपादनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy