________________
उपोद्घातः - [नि.३६१]
१३९ ततस्तान् पृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि ?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन तान् लाञ्छितवानः पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान्, षण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरलं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशः प्रभृतयस्तु केचन रुप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयतिनि. (३६२) समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ।
जेआ वड्डइ कागिणिलंछन अनुसज्जणा अट्ठ ।। वृ-गमनिका-समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान्; भगवांश्च तस्मै प्रतिपादितवान् । 'अंगलि झय' त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः । सक्कत्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं-श्रावका अधिका इति । 'जेया वड्डइत्ति' प्राकृतशैल्या 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरलेन लाञ्छनं-चिह्नं तेषां कृतमासीत् ‘अनुसज्जणा अट्ट'त्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीथकरान् यावदिति गाथार्थः । तत ऊर्ध्वं मिथ्यात्वमुपगता इति ।। नि. (३६३) राया आइच्चजसो महाजसे अइबले अ बलभद्दे ।
बलविरिए कत्तविरिए जलविरिए दंडविरिए य । नि. (३६४) एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओअ ।
पवरो जिणिंदमउडो सेसेहिं न चाइओ वोढुं ॥ वृ-गमनिका-एभिरधभरतं सकलं भुक्तं, शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः-नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वादिति गाथार्थः ॥ नि. (३६५) अस्सावगपडिसेहे छठे छठे अमासि अनुओगो ।
कालेन य मिच्छत्तं जिनंतरे साहुवोच्छेओ । वृ-गमनिका-अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ।।।
साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाहनि. (३६६) दानं च माहणाणं १ वेए कासी अ २ पुच्छ निव्वाणं ४।।
कुंडा ५ थूभ ६ जिणहरे ७ कविलो ८ भरहस्स दिक्खा य ९॥ वृ-गमनिका-दानं च माहनानां लोको दादुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अत्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org