________________
१३८
आवश्यक मूलसूत्रम्-१
पागडरूवं दटुं पुच्छिसु बहुजणो धम्मं । कहतीसु जतीणं सो वियालणे तस्स परिकहणा ॥' प्रवर्तत इति गाथार्थः ॥ नि. (३६१) धम्मकहाअक्खित्ते उवट्ठिए देइ भगवओ सीसे ।
गामनगराइआइण विहरइ सो सामिणा सद्धिं ॥ कृगमनिका-धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धं, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृतिं चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैः निराकृतश्च चिन्तयामासएतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्जभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहृतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तेय भगवनतमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञविधोऽवग्रहः, तद्यथादेवेन्द्रावग्रहः राजावग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा-भरताषिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो वाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्-अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भक्तपानमिदमानीतं अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः ?, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति। पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, पुनरप्याह भरतःतस्याकृति-मात्रेणापि अस्माकं कौतुकं, तन्निदर्शातां, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वराम-दर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे,
शक्राङ्गुली च स्थापयित्वा महिमामष्टाहिकां चक्रे, ततः पभृति शक्रोत्सवप्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान् भवद्भिः प्रतिदिनं महीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायादिपरैरासितव्यं, भुक्ते च मदीयगृहद्वारासनव्यवस्थितैः वक्तव्यम्-जितो भवान् वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागराव-गाढत्वात् तच्छब्दाकर्णनोऽारकालमेव केनाहं जित इति, आः ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्वं संवेगं यातवान् इति । अत्रान्तरे लोकबाहुलयात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात्, आह भरतः-पृच्छापूर्वकं देयमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org