________________
१३७
उपोद्घातः - [नि.३५५] नि. (३५५) निकिंचणा य समणा अकिंचणा मज्झ किंचणं होउ ।
सीलसुगंधा समणा 'हयं सीलेण दुग्गंधो । वृ-गमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनम्-अल्पमपि येषां तेऽकिञ्चना-जिनकल्पिकादायः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किश्चनं भवतु पवित्रिकादि । तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः । तथानि. (३५६) ववगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ ।
अनुवाहणा य समणा मज्झं तु उवाहणा होतु ॥ वृ-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्यं यतः अतो मोहाच्छादितस्य छत्रकं भवतु । अनुपानत्काश्च श्रमणाः मम चोपानही भवत इति गाथाक्षरार्थः ॥ तथानि. (३५७) सुक्कंबरा य समणा निरंबरा मज्झ धाउरत्ताई ।
हुतुं इमे वत्थाई अरिहो मि कसायकलुसमई । वृ- गमनिका-शुक्कान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं येषां ते निरम्बरा जिनकल्पिकादायः ‘मज्झन्ति' मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति ?, 'अर्होऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः । तथानि. (३५८) वजंतऽवज्जभीरू बहुजीवसमाउलं जलारंभं ।
होउ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ वृ-गमनिका-वर्जयन्ति अवद्यभीरवो बहुजीवसमाकुलं जलारम्भं, तत्रैव वनस्पतेरस्थानात्, अवयं-पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः। नि. (३५९) एवं सो रुइअमई निअगमइविगप्पिअं इमं लिंगं ।
तद्धितहेउसुजुत्तं पारिव्वज्जं पवत्तेइ ॥ वृ. गमनिका-स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टम् ?-तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुष्टु युक्तं-श्लिष्टमित्यर्थः, परिव्राजामिदिं पारिव्रज्यं, प्रवर्त्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एवं, पाठान्तरं वा 'पारिव्वजं ततो कासी' त्ति पारिव्राजं ततः कृतवानिति गाथार्थः ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान्, तथा चाहनि. (३६०) अह तं पागडरूवं दटुं पुच्छेइ बहुजनो धम्मं ।
कहइ जईणं तो सो विआलणे तस्स परिकहणा ॥ वृ. गमनिका-अथ तं प्रकटरूपं-विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्मं, कथयति यतीनां संबन्धिभूतं क्षान्त्यादि लक्षणं ततोऽसाविति लोका भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org