________________
१३६
आवश्यक मूलसूत्रम्-१इति चोक्तो चिन्ता तस्य जाता, यामीति संप्रधार्य ‘पदे' इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ।। उत्पन्नज्ञानरलस्तीर्ण-प्रतिज्ञो जिनस्य पादमूले केवलिपर्षदं गत्वातीर्थं नत्वा आसीनः ।।अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि च भुङ्क्ते विपुलभोगान् । मरीचिरपि स्वामिपाचे विहरति तपः संयमसमग्रः ॥ स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायां, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः ।। नि. (३५०) अह अन्नया कयाई गिम्हे उण्हेण परिगयसरीरो।
अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ ॥ कृ. 'अथ' इत्यानन्तर्यो 'कदाचिद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अम्नानेनेति' अनाानपरीषहेण त्याजितः संयमात् ‘एतत्कुलिङ्गं वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ नि. (३५१) मेरुगिरीसमभारे न हुमि समत्थो मुहुत्तमवि वोढुं ।
सामण्णए गुणे गुणरहिओ संसारमनुकंखी ॥ वृ-गमनिका-मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्तमपि वोढुं, कान् ?, श्रमणानामेते श्रामणाः, के ते?, गुणाः विशिष्टक्षान्त्यादयस्यान्, कुतो ?, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः ॥ ततश्च किं मम युज्यते ?, गृहस्थत्व तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यंनि. (३५२) एवमनुचिंतंतस्स तस्स निअगा मई समुप्पन्ना ।
लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ वृ- ‘एवं' उक्तेन प्रकारेण अनुचिन्तयतस्य निजा मतिः समुत्पन्ना, न परोपदेशेन, स ह्येवं चिन्तयामास-लब्धो मया वर्तमानकालोचितः खलुपायः, जाता मल शाश्वता बुद्धिः, शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः ।।
यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाहनि. (३५३) समणा तिदंडगविरया भगवंतो निहुअसंकुइअअंगा।
अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं ॥ वृ-गमनिका श्रमणाः मनोवाकायलक्षणत्रिदण्डविरताः, पाश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि-अन्तः करणाशुभव्या-पारचिन्तनपरित्यागात् संकुचितानि-अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः-'अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि-चक्षुर दीनि दण्डाश्च-मनोवाकायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्न, अविस्मरणामिति गाथार्थः ।। नि. (३५४) लोइंदिअमुंडा संजया उ अहयं खुरेण ससिहो अ।
थूलगपाणिवहाओ वेरमणं मे सया होइ । वृ-गमनिका-मुण्डो हि द्विविधो भवति-द्रव्यतो भावतश्च, तत्रैतेशमणा द्रव्यभावमुण्डाः, कथम् ?, लोचेन इन्द्रिययैश्च मुण्डाः संयतास्तुः अहं पुनर्नेन्द्रियमुण्डो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा वर्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः ।।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only