________________
११८
आवश्यक मूलसूत्रम्-१
सव्वेसिं परिचाओ संवच्छरिअं महादानं ।।। वृ-सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात्, लोकान्तिकाःसारस्वतादयः तद्बोधिताश्च जीतामितिकृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुतस्वयंबुद्धानपि भगवतो बोधयन्तीति । सर्वेषां परित्यागः सांवत्सरिकं महादानं-वक्ष्यमाणलक्षणमिति गाथार्थः ॥ नि. (२१३) रज्जाइच्चाओऽवि य २ पत्तेअं को व कत्तिअसमग्गो ३।
को कस्सुवही ? कोवाऽणुन्नाओ केण सीसाणं ४ ॥ वृ- राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाहनि. (२१४)सारस्सय १ माइच्चा २ वण्ही ३ वरुणा ४ य गद्दतोया ५ य ।
तुसिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ।। कृ-गमनिका-'सारस्सयमादिछात्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, 'वण्ही वरुणा यत्ति' प्राकृतशैल्या वकारलोपात् वह्नयरुणाच, गर्दतोयाश्च तुषिता अवयाबाधः 'अग्गिच्चा चेव रिट्ठा यत्ति' अग्नश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तास्थ्यात्तद्व्यपदेशः' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्णराजीस्थापना त्वेवम् । उक्तं च भगवत्याम् – “कहिं णं भंते ! कण्हराईओ पन्नत्ताओ?, गोयमा ! उप्पि सणंकुमार-माहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिटे विमाणपत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हराईओ पन्नताओ" एताश्च स्वाभावत् एवात्यन्तकृष्णा वर्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ॥ नि. (२१५) एए देवनिकाया भयवं बोहिंति जिनवरिंदं तु।
सव्वजगजीवहिअं भयवं ! तित्थं पवत्तेहिं ।।। वृ- गमनिका-एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोध्यन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् ?, सर्वे च ते जगजीवाश्च सर्वजगज्जीवाः तेषां हितं हे भगवन् ! तीर्थं प्रवर्तयस्वेति गाथार्थः । उक्तं संबोधनद्वारम्, इदानीं परित्यागद्वारमाहनि. (२१६) संवच्छरेण होही अभिनिक्खमणं तु जिनवरिंदाणं ।
तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि ॥ वृ-भावार्थः स्पष्ट एव, नवरं पूर्वसूर्ये-पूर्वाह्ने इत्यर्थः, इति गाथार्थः ॥ कियप्रतिदिनं दीयत इत्याहनि. (२१७) एगा हिरण्णकोडी अट्ठेव अनूनगा सयसहस्सा ।
सूरोदयमाईअं दिज्जइ जा पायरासाओ ।। कृ-गमनिका पूर्वार्धं सुगमं, कथं दीयत इत्याह-सूर्योदय आदर्दी यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः, कियन्तं कालं यावत् ?-प्रातरशनं प्रातराशः प्रातर्भोजनकालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org