________________
उपोद्घातः - [नि. २०८]
११७
ऋषभस्य वक्तव्यतामिति गाथार्थः ॥ नि. (२०९) संबोहण १ परिच्चाए २, पत्तेअं ३ उवहिंमि अ ४ ।
अन्नलिगे कुलिगे अ ५, गामायार ६ पीरसहे ७॥ वृ-स्वयंबुद्धाः सर्व एव तीर्थकृतस्तथकिप तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां संबोधनं कुर्वन्ति । परित्याग इति-परित्यागविषयो विधिर्वक्तव्यः, किं भगवन्तश्चारित्रप्रतिपत्ती परित्यजन्तीति । प्रत्येकमिति-कः कियत्परिवारो निष्क्रान्तः । उपधाविति-उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात इति । 'अन्यलिङ्गं साधुलिङ्गं 'कुलिङ्गं तापसादिलिङ्गं, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकरलिङ्ग एवेति, ग्राम्याचाराः-विषयाः परीषहाः-क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रव्रजितैर्विषया न भुक्ताः शेषेमुक्ताः, परीषहाः पुनः सर्वेर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । नि. (२१०)जीवोवलंभ ८ सुयलंभे ९, पच्चक्खाणे १० अ संजमे ११॥
छउमत्थ १२ तवोकम्मे १३, उप्पायिा नाण १४ संगहे १५॥ वृ-तत्र जीवोपलम्भः-सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलाभःपूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् । संयमोऽपि पुरमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः, कः कियन्तं कालं छद्मस्थः खल्वासीदिति । तथा तपःकर्म-किं कस्येति वक्तवयं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिनहनि केवलमुत्पन्नमिति । तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । नि. (२११)तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९ ।
परिआअ २० अंतकिरिआ, कस्स तेन तवेण वा २१?॥ वृ-तत्र तीर्थमिति-कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ-प्रागुक्तशब्दार्थं तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं गण इति-एकवाचनाचारक्रियास्थानां समुदायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराः-सूत्रकर्तारः, ते च कस्य कियन्त इति वक्तव्यम्। तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य उपायोद्वादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपायस्तस्य देशकाः-देशयन्तीति देशकाः, तेच सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः । तथा पर्याय इति-कः कस्य प्रव्रज्यादिपर्याय इलोतद्वक्तवयं । तथा अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च कस्य केन तपसा संजाता? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः । इदानीं प्रथमद्वारगाथाऽऽद्यदलावयवार्थं प्रतिपादनायाह
नि. (२१२) सव्वेऽवि सयंबुद्धा लोगंतिअबोहिआ य जीएणं १।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org