________________
उपोद्घातः - [ नि. २१७ ]
यावत् इति गाथार्थः ॥ यथा दीयते तथा प्रतिपादयन्नाहनि. (२१८) सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं । दारेसुं पुरवराणं रत्थामुहमज्झयारेसुं ॥
नि. (२१९) वरवरिआ घोसिजर किमिच्छअं दिजए बहुविहीअं । सुरअसुरदेवदानवनरिंदमहिआण निक्खमणे ||
११९
वृ- तत्र शृङ्गाटकं त्रिकं चतुष्कं चत्वरं चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिङ्गाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, 'रथ्यामुखानि' रथ्याप्रवेशा 'मध्यकारा' मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः ॥ किं ?, वरवरिका घोष्यते वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमिच्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिकं । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं, देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः ॥
इदानीमेकैकैन तीर्थकृता कियद्द्रव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाहनि. (२२०) तिन्नेव य कोडिसया अट्ठासीइं च हुंति कोडीओ । असिदं च सयसहस्सा एअं संवच्छरे दिन्नं ॥
बृ- भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षष्ठाधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ।। साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहनि. (२२१) वीरं अरिट्ठनेमिं पासं मल्लिं च वासुपुत्रं च । एए मुत्तूण जिने अवसेसा आसि रायाणो ॥ नि. (२२२) रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं । न य इत्थिआभिसेआ कुमारवासंमि पव्वइआ ॥ संत कुंथू अ अरो अरिहंता चेव चक्कवट्टी अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥
नि. (२२३)
वृ- एताः तिस्त्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया । गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्यचिख्यासुराहनि. (२२४) एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं । भयवं च वासुपुजो छहि पुरिससएहि निक्खतो ॥ उगाणं भोगाणं रायण्णाणं च खत्तिआणं च ।
नि. (२२५)
चउहि सहस्सेहुभो सेसा उ सहस्सपरिवारा ॥
वृ- एको भगवान् वीरः- चरमतीर्थकरः प्रव्रजितः, तथा पार्श्वो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षङ्गिः पुरुषशतैः सह निष्क्रान्तः प्रव्रजितः । तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्त्रैः सह ॠषभः, किम् ?, निष्क्रान्त इति वर्त्तते, शेषास्तु- अजितादयः सहस्त्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org