________________
११२
आवश्यक मूलसूत्रम्-१
वृ-गमनिका-उग्रा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह-आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्द पुनः शब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥
इदानीं लोकस्थितिवैचित्र्य-निबन्धनप्रतिपादनमाहनि. (२०३)आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ६ ।
लेहे ६ गणिए ७ अ रूवे ८ अ, लक्खणे ९ माण १० पोअए ११॥ वृ-एताश्चतस्त्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामथिकृत्याह-तत्र 'आहार' इति आहारविषयो विधिव'क्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः ? कथं वा पक्काहारः संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि ?, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादि कर्म संजातमिति, तच्चाग्नौ उत्पन्ने संजातमिति, 'चः' समुच्चये ‘मामणत्ति' ममीकारार्थे देशीवचनं, ततश्च परिग्रहममीकारो वक्तव्यः, स च तत्काल एव प्रवृत्तः, 'चः' पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, सा च वक्तव्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, 'लेख' इति लेखनं लेखः-लिपीविधानमित्यर्थः, तद्विषयो विधिर्वक्तव्यः, तच्च जिनेन ब्राह्मया दक्षिणकरेण प्रदर्शितमिति, गणित विषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया योज्या, गणितं-संख्यानं, तच्च भगवता सुन्दर्या वामकरेणोपदिष्टमिति, 'चः' समुच्चये, रूपं-काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, ‘चः' पूर्ववत्, ‘लक्षणं' पुरुषलक्षणादि, तच्च भगवतैव बाहुबलिनः कथितमिति, 'मानमिति' मानोन्मानावमानगणिमप्रतिमानलक्षणं, 'पोत' इति बोहित्थः प्रोतं वा अनयोर्मानपोतयोविधिर्वाच्यः, तत्र मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानमुक्तम्-'दो असतीओ पसती' इत्यादि, रसमानं तु ‘चउसट्ठीया बत्तीसिआ' एवमादि १, उन्मानं-येनोन्मीयते यद्वोन्मीयते तद्यथा-कर्ष इत्यादि २, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा-हस्तेन दण्डेन वा हस्तो वेत्यादि ३, गणिमं-यद्गण्यते एकादिसंख्ययेति ४, प्रतिमान-गुजादि ५, एतत्सर्व तदा प्रवृत्तमिति, पोता अपि तदैव प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोतः-मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः ।। नि. (२०४)ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासना १६ ।
तिगिच्छा १७ अत्थसत्थे १८ अ, बंधे १९ २० अ मारणा २१ ॥ वृ- ‘ववहारे' त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानदिलक्षणो व्यवहारः, स च तदा प्रवृत्तो, लोकानां प्रायः स्वस्वभावापगमात्, ‘नीतित्ति' नीती विधिर्वक्तव्यः, नीतिःहक्कारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, 'जुद्धे यत्ति' युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहयुद्धादिकं लावकादीनां वा तदैवेति, 'ईसत्थे यत्ति' प्राकृतशैल्या सुकारलोपात् इषुशास्त्रं-धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org